पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ अमरकोशः [प्रथमकाण्डः अभ्रिः स्त्री काष्ठकुद्दाल: सेकपात्रं तु सेचनम् ॥ १३ ॥ यानपात्रं तु पोतोऽब्धिभवे त्रिषु समुद्रियम् । क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ॥ १४ ॥ (वि.) अभ्रिरिति — अभ्रयति पोते लवणादिकं पातयतीति अभ्रिः । ‘अभ्र गतौ' । काष्टनिर्मित: कुद्दालः काष्ठकुदालः । 'लवणादिखननकाष्ठकुद्दालनामनी ॥ 2 सेकाय पात्रं सेकपात्रम् | सिच्यतेऽनेन नौकाजलमिति सेचनम् । 'षिच क्षरणे' । पोतरन्ध्र- प्रविष्टजलस्य बहि:सेचनाय नियोजितदारुपात्रनामनी || यानाय पात्रं यानपात्रम् | पूयते कालक्रमेणेति पोतः । 'पूयी विशरणे ' | वहित्रनामनी || समुद्रे भवं समुद्रियम् । त्रिषु । कथं ? समुद्रिया आपः, समुद्रियं लवणं, समुद्रियस्तरङ्ग इत्यादि । अब्धिभव- मुक्तादिनाम ॥ नावोऽर्धम् अर्धनावम् । नावोऽर्धनाम ॥ अतीता नौर्येन अतिनु । नावमतिक्रान्तमिति वा । अतीतनौकजलादिनाम ।। १३-१४ ।। 1 दृढदारुनिर्मितसन्धीकरणसाधन विशेषः; कुम् उद्दालयतीति कुद्दाल:, 'दल विशरणे' B2. 2 सेकः सेचनं तस्य पात्रं Pt2; सेकायान्तः स्थजलानां निर्मितं पात्रं B2. निर्मितं. 3 B₂ adds 4 तत् त्रिषु वर्तते D1. 5 समुद्रियो मुक्तामणि: Pt 2. 6 Y adds ‘वस्तु' (पा.) अभ्रिः – काष्ठकुद्दालः | दारुमयकुद्दालोऽभ्रिः स्यात् । अभ्रिपुरन्ध्रिशौरि- शरारितन्द्रिवल्लरिवलिगालिशष्कुलिहलिधूलिशब्दा' ह्रस्वान्ता दीर्घान्ताश्च भवन्तीत्यरुणदत्त- लिङ्गानुशास' सम्यक् प्रतिपादितम् || सेकपात्रं - - सेचनम् । जलसेक बोक्काण: सेचनं स्यात्। 'पोतरन्ध्रप्रविष्टजलस्य बहि:सेचनाय निर्मितदारुपात्रनाम' इति वदन्ति । तदसत् । ‘चर्मपात्रं तु बोक्काणः' इति वामनलिङ्गानुशासनवचनात् । यानपात्रं तु पोतः । वहित्रनामनी ॥ अब्धिभवे - समुद्रियम् । अब्धौ समुद्रे भवं समुद्रियं स्यात् । तच्च त्रिलिङ्गम्। क्लीबे—अर्धे । नावोऽर्धेऽर्धनावं स्यात् । अर्धनावमर्धनावीति हि स्त्रीनपुंसक योश्यत इति शाकटायन: (२.१.१६७) ॥ अतीतनौके — त्रिषु | नावमतिक्रान्तमतिनु स्यात्। ‘ह्रस्वो नपुंसके प्रातिपदिकस्य ' (१. २. ४७) इति ह्रस्व:' । 'स्त्रीपुंसयोस्तु अतिनौः’ ॥ १३-१४ ॥ 1 A1 adds ‘आलि. 2 ° शासनकारेण A1. त्रिष्वागाधात् प्रसन्नोऽच्छ : कलुषोऽनच्छ आविलः । निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ १५ ॥ 3 इति ह्रस्वत्वं वपुंसकविषयम् A1.