पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ अमरकोशः [प्रथमकाण्ड: नाव्यं त्रिलिङ्गं नौतायें स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ उडुपं तु लवः कोलः स्रोतोऽम्बुसरणं स्वतः । (वि.) नाव्यमिति – नावा तायें 'नाव्यम् । नौतार्यजलनाम || नुद्यते इति नौः। ‘णुद प्रेरणे' । नयतीति वा । ‘णीञ् प्रापणे' । तरत्यनया नदीं तरणिः । तरिश्च । 'तृ प्लवनतरणयोः' । तरणी तरिरिति वा पाठः । नौनामानि ॥ ऊर्ध्वमुप्यते उडुपम् । 'डुवप् बीजतन्तुसंताने' । उडवः आपः ताभ्यो रक्षति पातीत्युडुपम् । 'पा रक्षणे ' । प्लवन्तेऽनेनेति प्लवः । प्लुङ् गतौ जलोपरि सर्पणे च ' । कोलति संस्त्यायतीति कोल: । 'कुल संस्त्याने बन्धुषु च । 'तृणप्लवनामानि ॥ स्वतः 'स्रवतीति स्रोतः । ‘स्रु गतौ' । अकृत्रिमाम्बुसरणनाम ॥ १० ॥ 1 नौतार्य K3. 4 'प्लव गतौ' Wa, Ptg. 6 सरतीति B2, W2, Pt2; 'सृ गतौ ' Pt2, W2. 2 तार्यतेऽनया नदी; तरी च W2. 3 तरणी तरीति B1. 5 W1 omits तृण: ; सिन्धुतरणार्थ दारवप्लवनामानि B2. (पा.) नाव्यं – नौतायें । नावा तर्तुं योग्यं नाव्यं स्यात् । स्त्रियां – तरिः । नावो नामानि ॥ स्त्रियामिति जातिविशेषणम् । इयं नौरियं तरणिः, इयं तरिरियमङ्गिनी ॥ अनुक्तम् – ' यानपात्रं प्रवहणं वोहित्थं च 'वहित्रकम्' | यानपात्रनामानि ॥ उडुपं - कोलः । तृणप्लवनामानि | 'तेप्प' ॥ अनुक्तम् – 'तरण्डश्चर्मपात्रादि ' । जलतरणाय कल्पितवर्तुलचर्मपात्रादिस्तरण्ड: स्यात् । 'आरोह्योऽसौ तरण्डकः' इति वैजयन्ती (प्र. १५५, लो. १६) । स्रोतो – स्वतः । स्वतोऽम्बुसरणं प्रवाहः । तत् स्रोत: स्यात् । ‘ओघ : प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः' इति हलायुधः (अ. मा. ३.४७) ॥ १० ॥ 1 तरितुं B3, B1. 2 वहित्रवत् A2, B3. 3 Bg omits तृण. आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः । (वि.) आंतर इति – आंतरन्त्यनेनेति अतरः । ‘तृ प्लवनतरणयोः' । अवाप इति वा पाठः । आ समन्तादुप्यते 'आवापः । 'डुवप् बीजसंताने' | तरस्य तरणस्य पण्यं मूल्यं तरपण्यम् । नदीतरणाय नाविकदेयमूल्यनामनी ॥ द्रवत्यस्यां जलमिति द्रोणी । 'द्रु गतौ' । काष्ठपाषाणादिनिर्मिताम्बुवाहिनीनाम || समुदितानां यात्रा संयात्रा द्वीपान्तर- गमनम् । सा प्रयोजनमस्य सांयात्रिकः । पोते ' वणिक् 'पोतवणिक् । वहित्रवणिङ्नाम ॥