पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. वारिवर्गः] दाक्षिणात्यव्याख्योपेतः पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोय पानीयनीरक्षीराम्बुशम्बरम् ॥ ४॥ 6 मेघपुष्पं घनरसस्त्रिषु द्वे आव्यमम्मयम् | सु (वि.) तस्येति – क्षीरमुदकं यस्य क्षीरोदः । 'लवणमुदकं यस्य लवणोदः । तथा अपरे । के ते ? ध्युदः, घृतोदः, सुरोदः, इक्षूदः, स्वादूदः । समुद्र विशेषनामानि ॥ इन्द्रेण आप्यन्ते आपः । 'आप्ऌ व्याप्तौ' । बहुप्रदेशं 'वृणोतीति वाः । वारि च । 'वृञ् वरणे' । वार्शब्दो रेफान्तः स्त्रीलिङ्गश्च पूर्वसाहचर्यात् । सरतीति सलिलम् ।

गतौ' । काम्यते तृषितैरिति कमलम् । 'कमु कान्तौ' । जलति जडीभवतोति जलम् ।

'जल 'घातने' । पयत इति पयः । ‘पय गतौ' । पीयत इति वा । 'पा पाने' । कीलान् ज्वालान् अलति वारयतीति कीलालम् । ‘अल भूषणपर्याप्तिशक्तिवारणेषु' । न म्रियन्तेऽनेनेत्यमृतम् । ‘मृङ् प्राणत्यागे' । अनेन न मृतमिति वा । जीवन्ति येनेति जीवनम् । 'जीव प्राणधारणे' । भवति सर्वमस्मादिति भुवनम् । 'भू सत्तायाम्’ । वन्यते याच्यत इति वनम्' | 'वनु याचने' | कं सुखं बध्यतेऽत्र कबन्धम् । 'बन्ध बन्धने’ । कं 'सुखं बध्नातीति वा । कमन्धमिति पाठे कम् अन्धमिति नामद्वयम् । तृषितैः काम्यत इति कम् । ‘कमु कान्तौ ' । अनन्त्यनेनेत्यन्धम् । 'अन प्राणने' । उनत्तीत्युदकम् । ‘उन्दी क्Èदने’ | पीयते पाथः । 'पीङ् पाने' । पातीति वा । 'पा रक्षणे' । 'पुष्णातीति पुष्करम् । 'पुष पुष्ट' । सर्वतो मुखं यस्य तत् सर्वतोमुखम् । अमति गच्छतीत्यम्भः । ‘अम गत्यादिपु' । मुखम् अम्भते वा अनेनेत्यम्भः । 'अभि शब्दे ' । ऋणोतीत्यर्णः । ऋच्छतीति वा । ‘ऋ° गतौ ' । तौतीति तोयम् । 'तुः आवरणार्थे ' । तायते पालयतीति वा तोयम् । 'तायृ संतानपालनयो: ' । पीयत इति पानीयम् ॥ | पातव्यमिति वा । ‘पा पाने’ | नीयते नीरम् । ‘णीञ् प्रापणे ' । क्षीयते क्षीरम् । 'क्षि निवासगत्योः' । ‘क्षि क्षये' इति वा धातुः | घस्यते व । । 'घस्ऌ अढ्ने' | अम्बते मुखमनेन अम्बु । ‘अवि रबि लबि शब्दे' । शं सुखं वृणोतीति शम्बरम् | ‘वृञ् वरणे'। सम्बरमिति पाठे संवृणोतीति संवरम् । वबयोरभेद: 1 2 | मेघस्य पुष्पं मेघपुष्पम् । घनस्य रसो घनरसः । एतानि जलनामानि || अपां विकारः आप्यम् | अम्मयं च । जल- विकारनामनी ॥ २४ ॥ । 1 क्षीरमिव Pt2. निम्नोन्नतमिति Pt2. 2 लवणमिव Pt.. 5 सलतीति, 'षल गतौ' Ptg. 3 आप्नुवन्ति Pt.. १५७ 6 ‘ जल घने' Pt2. 4 अपवारयति 7 वनतीति