पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ अमरकोशः १२. वारिवर्गः समुद्रोऽब्धिरकूपार: पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरखान् सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादः पतिरपांपतिः । (वि.) समुद्र इति – सम्यगुनत्ति समुद्रः । 'उन्दी क्लेदने’। समन्तात् मुदं 2 रातीति वा । 'रा दाने' । मुद्रया मर्यादया सहित इति वा । आपो धीयन्ते अति अब्धिः। ‘डुधाञ् धारणपोषणयोः' । मर्यादया कुं भुवं न पृणातीति अकूपारः । ‘पृ ●पालनपूरणयोः' । अकुत्सितं पारमस्येति वा पारमावृणोतीति पारावारः । 'वृञ् वरणे'। पारमपारमस्य दुस्तरत्वादिति वा पारापारः । सरितां पतिः सरित्पतिः । उदकमस्त्यस्मिन्निति उदन्वान् | उदकानि धीयन्तेऽस्मिन्निति उदधिः । 'डुधाञ् धारणपोषणयोः' । स्यन्दते जलमत्र सिन्धुः। ‘स्यन्दू 'प्रस्रवणे' । सरांस्यत्र सन्तीति सरस्वान् | 'सगरपुत्रैः खातः 'सागरः । अर्णांसि जलानि सन्त्यस्मिन्निति अर्णवः | रत्नानाम् आकरः रत्नाकरः । जलानां निधिः जलनिधिः । जलानि नितरां धीयन्तेऽस्मिन्निति वा । 'डुधाञ् धारणपोषणयोः'। यादसां जलजन्तूनां पति: यादः पतिः । अपां जलानां पतिः अपांपतिः । अप्पतिर्वा । समुद्रनामानि ॥ १ ॥ । 1 Pto adds चन्द्रोदयात् . 4 उदानि एव उदकानि, स्वार्थे कप्रत्यय: B2. A, B1, Tomit. 2 लाति A. श्रीधेनुवागीश्वर्यै नमः . [प्रथमकाण्डः 5 प्रवहणे B2. 1 Aj adds महागणपतिं वन्दे महादेवकुमारकम् । सहायं निजभक्तानां गुहानन्दप्रदायकम् || 2 सरिदाकर: B3. 3 अस्य पारस्य दुस्तरत्वात् B2. 6 सगरैः कृतः A, B1. (पा.) समुद्रो - पारावारः | आवारपारकूपारावपि तत्पर्यायौ । 'आवारपारः 'कूपारो रत्नमीनाभिधाकरः' इति धनंजयः । सरित्पतिः– अर्णवः । 'अर्णसो लोपश्च' (वा. ५. २. १०९) इति सलोपः । रत्नाकरो - अपांपतिः । समुद्रनामानि ॥ अनुक्तम्- ' ऊर्मिमाली पयोराशि: सरित्वान् सलिलाकर: ' । एतानि च ॥ १ ॥ 6 तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।