पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. नरकवर्गः] दाक्षिणात्यव्याख्योपेतः १५३ कालकूटम् । हलाहलः, हलाहलम् । 'हालाहलं विषमिवाप्रगुणं तदेव' इति प्रयोगाद् हालाहलः । हालाहलम्। 'हृदये हालहलं महद्विषम्' इति प्रयोगाद् हालहलमित्यपि । अनुक्तम् – 'गरस्तु कृतकं विषम्' | कृत्रिमविषं गरः स्यात् || विषवैद्यो जाङ्गुलिकः । गारुडविद्याभिज्ञनामनी । जाङ्गुलिं जागुलं वा वेत्तीति व्युत्पत्तिद्वारेण । जाङ्गुलि - विषमन्त्र: । जाङ्गुलो विषतन्त्रः ॥ व्यालग्राह्यहितुण्डिक : ' । 'व्यालग्राहो हितुण्डिकः ' इति रत्नकोशनाममालिके| व्यालग्राहिपुरुषनामनी ॥ ७-८ ।। इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरि विरचितेऽमरपदपारिजाते पातालभोगिवर्गः 1 व्युत्पादन ° AT. 2 आहितुण्डिक: Bg. 3 °नरसिंह ° A1. 6 ११. नरकवर्गः स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । तद्भेदास्त पनावी चिमहारौरवरौरवाः ॥ १ ॥ संहारः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ २ ॥ (वि.) स्यान्नारक इति–नारं नरसमूहं कात्यस्मिन्निति नारकः। 'नरक्श्च। ‘कै शब्दे’। निर्गतोऽयः ? दैवमस्मादिति निरयः । दुष्टा गतिरिति दुर्गतिः । नरक- नामानि ॥ तप्यन्ते पापिनोऽत्र तपनः । 'तप संत पे' | अव्यन्ते रक्ष्यन्तेऽस्माद् अवीचिः | नास्ति वीचिः सुखस्य स्वल्पोऽप्यन्त्रेति वा । 'अव रक्षणे' । अव्यन्ते खाद्यन्तेऽस्मिन्निति वा । स्त्रीपुंसयोः । रुः दुःखं, तस्य रवोऽत्रेति रौरवः । महांश्चासौ रौरवश्च 'महारौरवः । संह्रियन्ते पापिनोऽस्मिन्निति संहारः । 'हृञ् हरणे' । संघात इति वा पांटे 'हन हिंसा गत्योः' । कालानि अयोमयानि सूत्राण्यस्मिन्निति कालसूत्रम् । एवमादीनि नरक भेदनामानि || आद्यशब्देन तामिस्रान्धतामिस्रासिपत्रवनादयः उच्यन्ते । 'सत्त्वाः प्राणिनः । नरके 'विद्यमानाः नारकाः। प्रकर्षेण नरकमिता: प्रेताः । 'इण् गतौ' । नरकसंबन्धिप्राणिनाम | विगतं तरणं यत्र वितरणम् । वितरणे नरके' भवा वैतरणी । विगता तरणिः नौरत्रेति 10 वितरणिः । वितरणिरेव वैतरणी । विगतः तरणिः सूर्योऽत्रेति 6