पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०. भोगिवर्ग:] दाक्षिणात्यव्याख्योपेतः १५१ उरसा गच्छतीति उरग: । 'गम्ऌ गतौ । पद्भ्यां न गच्छतीति पन्नगः । पन्नं पतितं यथा तथा गच्छतीति वा । भोगः सर्पशरीरं । तदस्यास्तीति भोगी। जिह्मं कुटिलं गच्छतीति जिह्मगः | पवनोऽशनं यस्य सः पवनाशनः । सर्पनामानि ॥ ३५ ॥ 1 व्यायच्छति K3. 4 कुण्डलयोगात् A, B1. 7 का ईपत् अकं कुटिलगतिकम् उदरमस्येति वा Ptg. 9 दर्ग्याकारत्वात् फणा दव सैव प्रहरणादौ करोऽस्येति Pt2. दन्त एव शुक: तीक्ष्णकण्टकः यस्य B2. 2 D1, I add ‘धृ धारणे. 5 गूढौ पादौ W2. 3 विशेषेण आडति B.. 6 चक्षुभ्यां॑ शृणोतीति वा Pto. 8 ' कृणाति, 'कु हिंसायाम् ' K3. दन्तसूक इति वा पाठः । 10 (पा.) सर्पः – पवनाशनः । अनुक्तम् – 'कुम्भीनस: पुण्डरीका लेलिहानश्च कञ्चुकी | गोकर्णो नाकुसद्मा च ' इत्येतानि च । सर्पजातिनामानि ॥ 1 दवकर° B1. 'षड्डूिंशतिर्मण्डलिनस्तथा दर्विकराभिधाः । त्रयोदश च राजीला' वैकरञ्जाभिधास्त्रयः | निर्विषा द्वादशेत्येवमशीतिः सर्पजातयः ॥ ३५॥ 2 राजोवा: A1. त्रिष्वायं विषास्थ्यादि स्फटायां तु फणा द्वयोः । समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ६ ॥ (वि.) त्रिष्विति - अहौ सर्पे भवम् आहेयम् । विषास्थ्यादिनाम || स्फटतीति स्फट । 'स्फट विकसने' । स्फुटति विशीर्यतेऽनया आहत इति स्फुटा वा । 'स्फुट विशरणे'। 'फणत्यनया फणा । 'फण गतौ' । दर्विनामनी || कञ्चुक इव तिष्ठतीति कञ्चुकः। कञ्च्यते बध्यत' इति कञ्चुक: । 'कचि दीप्तिबन्धनयोः' । निर्मुच्यत इति निर्मोकः। ‘मुच्ऌ मोक्षणे' । सर्पकञ्चुकनामनी ॥ क्ष्वेडत इति क्ष्वेडः । 'त्रिविदा स्नेहनमोचनयोः' । अन्तः निगीर्यत इति गरलम् । गिरति जीवमिति वा । 'गृ निगरणे ' । देहं वेवेष्टीति विषम् । ' विष्ऌ व्याप्तौ'। 4 विषशब्दः पुंसि क्लीबे वा । विषनामानि ॥ ६ ॥ 1 गच्छति B2. 2 दर्व्याकारफण° B2. 3 Bo, Pto add अनेन. क्लीवे चेत्या पूर्वेण विषशब्देनान्वयात् विषशब्दः पुंलिङ्गेऽपीति केचित् Pto. 4 पुंसि