१५० अमरकोशः [ प्रथमकाण्डः त्रेधा विकल्पितः पाठः । समौ - डुण्डुभौ । क्षीराकार निर्विषद्विमुखसर्पनामनी । 'राजिल: 2 क्षीरकाथ' इति वैजयन्ती (ट. १४९, लो. २०) । मालुधानो मातुलाहिः । धत्तूर- वृत्तिसर्पनामेति केचित् । 'मुरुटपामु' । 'पोष्यमाणेवनविनालमा लुधाननकुललिशाजालि- कादिभिरटविकुटुम्बिनां गृहैरुदितं वनग्रामं ददर्श' इति हर्षचरिताभ्युदयः । अनुक्तम्- ‘अहिरिणी तु द्विमुखी'। द्विमुखसर्पनाम | 'रेण्डुतललविषंगलपामु' || 'सर्पराजस्तु सर्पभुक्' । सर्पभक्षकसर्पनाम ॥ निर्मुक्तो – कञ्चुकः । परित्यक्तकञ्चुकसर्पनाम ॥ २ ॥ 1 विकल्पितम् Bs. 2 क्षिलिक: A1. 3 A1 adds ' रक्त वेनुपोडानुन्नु'. सर्पः वृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः ॥ ३ ॥ आशीविषो विषधरचक्री व्यालः सरीसृपः । कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥ ४ ॥ दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ५ ॥ (लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा । कुम्भीनसः फणधरो हरिर्भोगधरस्तथा । अहे: शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥) (वि.) सर्प इति – सर्पतीति सर्पः । 'सृप्ऌ गतौ' । पर्दत इति पृदाकुः। ‘पर्द 6 कुत्सिते शब्दे ' । आखग्रहणार्थं कुं भुवं प्रियते गच्छति वा पदाकुः । परनिपातः । 6 'पृङ् व्यायामे'। भुजं कुटिलं गच्छतीति भुजगः । भुजंगः । भुजंगमञ्च । 'गम्ऌ गतौ' । भुजतीति भुजः। ‘भुज कौटिल्ये' | भुजः सर्पदेहः, तेन गच्छतीति वा । अंहत इत्यहिः। ‘अहि गतौ' । आशिषि दंष्ट्रायां विषमस्येति आशीविषः । विषस्य धरः विषधर : 2 । चक्रं मण्डलाकारोऽस्यास्तीति चक्री | शिरसि चक्रयोगाद्वा । दृष्टं व्याडतीति व्यालः । डलयोरभेदात् । 'अड उद्यमने' | कुटिलं सर्पतीति सरीसृपः । 'सृप्ऌ गतौ ' । कुण्डलाकारं वपुरस्येति 'कुण्डली | 'गूढाः पादाः यस्य सः गूढपात् ! चक्षुषी श्रवसी यस्य चक्षुःश्रवाः॰। काकस्येवोदरं यस्य काकोदरः ? । काको विषविशेषः उदरे यस्येति वा । फणोऽस्यास्तीति फणी। दर्वी फणैव करो यस्य दर्वीकरः । दर्ज्या फणया कृणोति हिंसयतीति वा दर्वीकर : ' | 'कृञ् हिंसायाम् ' । दीर्घं पृष्ठमस्येति दीर्घपृष्ठः । कुत्सितं दशतीति 1°दन्दशूकः। 'दंश दशने' | बिले शेत इति बिलेशयः । 'शीङ् स्वप्ने'।
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२३
दिखावट