पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ अमरकोशः [प्रथमकाण्ड: मित्यपि ' इति हारावली । क्षीणेऽवतमसम् । अल्पं तमोऽवतमसं स्यात् । क्षीणतमसो नाम ॥ तमः – संतमसम् । सर्वतः प्रसृततमोनाम ॥ अनुक्तम् – ' रुपीडोऽस्त्री रुहेलि: स्त्री रुभेटिरपि धूमिका’ । धूमिकानामानि ॥ ३ ॥ इति पातालवर्ग: 1 तामिस्र: B3. अन्धतमसम्; पृ. २३०. 2 ' बहुलवचनात् क्वचिदयञ्यप्यनुपसर्गस्यापि दीर्घः । अन्धातमसम् । 3 A1 adds भाषया 'मोब्बु पेल्लु'. १०. भोगिवर्गः नागाः काद्रवेयास्तदीश्वरः । शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ १ ॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ । (वि.) नागा इति – पद्धयां नाङ्गन्ति गच्छन्तीति 'नागाः । 'अगि गतौ' । कद्रोरपत्यानि पुमांसः काद्रवेया: । देवयोनिसर्पनामनी ॥ शेते हरिरस्मिन्निति शेषः । अन्तकालेऽपि शिष्यत इति वा । ' शिष असर्वोपयोगे' । न विद्यतेऽन्तो यस्य सः अनन्तः । देवयोनिसर्पेश्वरनामनी ॥ वसति पाताल इति वासुकिः । 'वस निवासे' । वसुकस्यापत्यं वा । सर्पाणां राजा सर्पराजः । देवयोनिसर्पराजनामनी ॥ गोरिव 'नासा यस्य सः गोनसः । तिलति स्निह्यतीति तिलित्सः'। ' तिल स्नेहने ' । तिलिङ्ग इति पाठे ' तिल गतौ' । अजं 'मेषं गिरतीति अजगरः । 'गृ निगरणे' । अजो नित्यो गरो विषं यस्येति वा । शेते अत्यर्थमिति शयुः । 'शीङ् स्वप्ने' । वाहं गमनं स्यतीति वाहसः । 'षोऽन्तकर्मणि' । 10 वाहयति प्राणिनः आत्मवशं नयतीति वा । 'पेनुपामु पेरु' ॥ १ ॥ 6 3 शेषाहिनामनी D1. 1 अगन्ति गच्छन्ति अगाः, अगाः न भवन्तीति नागाः, 'अगि गतौ ' B2. के ? काद्रवेया इमें ज्ञेया: शेषवासुकितक्षका: A. 5 नासिका A, B1, T. 6 तिलिप्स इति वा पाठ: A. K3. 9 Bg adds समापयति. 10 वहति Bi, T. B2, K5, W2. 2 तदीश्वराः 4 वासुकिनामनी D1. 7 छागं Pta. 8 गतिं D1, 11 ' वह प्रापणे', अतिस्थूलसर्पनामनी