पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९. पातालवर्गः] दाक्षिणात्यव्याख्योपेतः १४७ पाठाद् (पृ. २६४, श्लो. ९०) दन्त्यादिरेव सुषिरशब्दः । छिद्रं – सुषिः । 'कलशकुलिश- शुभ्रश्वभ्रकाश्मीरशिल्पम्' इति श्वभ्रशब्दस्य तालव्यादित्वम् । विलनामानि ॥ गर्तावटौ – श्वभ्रे । श्वभ्रनामनी ॥ सरन्ध्रे - त्रिषु । रन्ध्रवद् द्रव्यं सुपिरं त्रिलिङ्गं स्यात् ।। १-२ ।। 2 B3 adds भवति तत् अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः ॥ ३ ॥ विष्वक् संतमसम् 1 A1 adds ऊष्मभेद: इति पातालवर्ग: (त्रि.) अन्धकार इति – 'अन्धं करोतीति अन्धकारः । 'डुकृञ् करणे । ध्वनन्त्यत्र मार्गमपश्यन्त इति ध्वान्तम् । 'ध्वन शब्दे ' | तमयति लोकं तमः । ‘तमु ग्लानौ' | तम एव तमिस्रम् | तिम्यत्यनुष्णत्वादिति तिमिरम्। 'तिम आर्द्राभावे ' । तमिस्त्रशब्दः स्त्रीनपुंसकयोः । अन्धकारनामानि | अन्धं तमः अन्धतमसम् | अन्धयति जनानां दृष्टिमिति वा अन्धतमसम् । 'अन्य दृष्ट्युपघाते' | गाढव्वान्तनाम ।। अवक्षीणं तमः अवतमसम् । क्षीणध्वान्तनाम || विष्वक् समन्तात् तमः संतमसम् । सर्वतः स्थित तमोनाम ॥ ३ ॥ 1 अन्धवत् A, T, W.. प्रतिभ्यति कामिहृदयानीति वा W.. 5 सर्वत्र B1, D1. इति पातालवर्ग: 3 2] पन्थानं A, T. अनुपङ्गत्वात् A, B, T; 4 अन्धं करोतीत्यन्धम् । अन्धं च तत् तमश्च Pt.. (पा.) अन्धकारो - तमः । प्रज्ञा दिपाठात् 'तामित्रमपि स्यात् । ‘स्मरर गमयी चपुस्तमिस्रा' इति माघप्रयोगात् ( शिशु. ६. ७०) तमिस्रा च भवति । अन्धकार नामानि || 'कालिकज्जलभूच्छायतमं वा स्यात् तमिः स्त्रियाम्' | एतानि च ॥ ध्वान्ते- अन्धतमसम् । अतिसान्द्रतिमिरनाम || शकट यनवृत्तौ 'यञ्युपसर्गस्य च ' (२. २.८८) इति दीर्घविधानसूत्रे अन्धातमसमित्युदाहृतम् । 'तद्न्धातमसं प्राहुर्गाढं तिमिर-