पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४६ अमरकोशः ९. पातालवर्गः अधोभुवनपातालं बलिसझ रसातलम् । नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा सुषिः । गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥ [प्रथमकाण्डः (वि.) अधोभुवनमिति – अधःस्थितं भुवनम् अधोभुवनम् । पतन्त्यस्मिन् पापादिति पातालम् । ‘पतूल गतौ ' । बलेः सद्म बलिसद्म । रसाया भूमेः तलमधोभागः रसातलम् | नागानां लोकः नागलोकः । पाताललोकनामानि ॥ प्राण्यादिकं कुत्सितं कृत्वा हरतीति कुहरम् । 'हृञ् हरणे ' । तमसा' कुहयते विस्मापयतीति वा । 'कुह विस्मापने' । सुष्टु स्यति गतिमिति सुषिरम् । 'षोऽन्तकर्मणि' । वित्रियते विवरम् । ‘वृञ् वरणे' ; बिल्यते विलम् । 'बिल भेदने' । छिद्यते छिद्रम् । 'छिदिर् द्वैधीकरणे' । निर्व्यथन्तेऽस्मात् निर्व्यथनम् । 'व्यथ भयसंचलनयोः' । रौति 'स्वगतप्राणिमुखेन शब्दायत इति रोकम् । रोचते प्रकाशते वा । 'रु शब्दे ' ' रुच दीप्तौ अभिप्रीतौ च ' । गतिं 'रन्धयतीति रन्ध्रम् | 'रव हिंसासराध्यो: ' । रणति वायुनेति वा । ‘रण शब्दे' । शुभं परिहृत्य अभ्रति वर्तत' इति श्वभ्रम् । 'अभ्र गतौ' । शोभनमभ्रमाका शमस्मिन्निति वा । उप्यते 'क्षिप्यते 10 पर्णादिकमस्यां वपा । 'डुवप् बीजसन्ताने ' । प्रमादपतितान् सुष्ठु स्यति सुषिः। 'षोऽन्तकर्मणि' | बिलनामानि ॥ गिरति सर्पादिकमिति गर्तः। ‘गृ निगरणे' । अवति सर्पादिकमित्यवट:11। 'अव रक्षणे' । उथ्श्वभ्रनामानि ! सुषिरत्रा- स्तीति सुषिरम् 3 । सरन्ध्रवेण्वादिन।म ।। १-२ ।। 1 Half folio missing in I. 2 नाग° A, B1. 4 °कुहम् आश्चर्यमित्यर्थः । तद् रातीति कुहरं, ‘रा दाने' B2. गतिम् . 6 अत्र प्राणीति B2. 7 A1 adds हिंसयति. 9 निक्षिप्यते I, K3. 10 तृणादिकं Pt2. K3, U. त्रिलिङ्ग: Pt2. 11 अव्यतेऽत्र वातादिति वा B2, D1, K2, 13 सुषिरशब्दो रन्ध्रवद्वस्तुवाचकत्वे 12 भूश्वभ्र° B1, Di, U, W1. 3 तमसि W2. 5 B2, K2, omit 8 वर्धते W2. (पा.) अधोभुवन–नागलोकः । पातालनामानि ॥ रसेति तलमिति व्यस्तमपि तन्नाम। ‘रसातलं तलं नागलोको दैत्यक्षयो रसा' इति वैजयन्ती (पृ. १४८, श्लो १)। अथ कुहरं—बिलम्। ‘छिद्रे छिद्रान्विते वाद्ये सुषिरं सुषिरो नड: ' इति वैजयन्ती-