पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्ग:] दाक्षिणात्यव्याख्योपेतः १३९. क्यनामानि ॥ " उत्सहनं उत्साहः । 'षह' मर्षणे' । व्यवसीयत इति व्यवसायः । ' षोऽन्तकर्मणि '। अध्यवसायो' वा । उत्साहनामानि ॥ वीरस्य कर्म वीर्यम् । अतिशक्तिसहितोद्योगनाम ॥ २८-९ ॥ 1 उपपन्नश्वासावाधिश्च, ‘डुधाञ् ..', पुंलिङ्ग: Dr. 2' चिति चिन्तायाम् ' K2, Y. 3 स्मरणं Pt2; स्मर्यतेऽनया D2, W1. 4 भणन्ति I, K3, K5, W2. 5 उत्कण्ठते A. 6 उत्सहते A; उद्गतं सहनं Pt2. 7 Pta adds. 8 उद्योगनामानि B2, D2, I, K5, W2. -व्यथा । (पा.) उपाधि :- धर्मचिन्ता | धर्मचिन्ता उपाधि: स्यात् । पुंसि - मनोव्यथा आधि: स्यात् । स्याच्चिन्ता – आध्यानम् । चिन्तानामानि ॥ चिन्तियाशब्दो- ऽप्यस्ति । ‘चिन्ता स्याञ्चिन्तिया स्मृतिः' इति रभसकोशः । उत्कण्ठा–समे । औत्सुक्य- नामानि । समशब्दग्रहणात् सर्वस्यापि ग्रहणम् । 'उत्कण्ठा स्यादुत्कलिका रति रणरणकम्' इत्यन्योक्तायल्लकादय ईषद्भिन्नार्थकाः । ‘ उत्कण्ठा परित।पो रणरणकं जागरस्तनोस्तनुता । फलमिदमहेयमाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥' उत्साहो – स्यात् । यत्ननामनी || 'यत्नोत्साहोद्यमायासास्तरीषोऽध्यवसायवत्' इति वैजयन्ती (प्र. ९५, श्लो. १६७) । स वीर्यमतिशक्तिभाक् । स यत्नोऽतिशक्तिभाक् चेत् वीर्यं स्यात् । 'अतिशयशक्तिर्वीर्यमिति' 'त्रिकाण्डेऽमरमाला ।। २८-९ ।। 1 शक्तिमान् B3. 2 यदि Bi. 23 Bs omits. कपटोsस्त्री व्याजदम्भोपघयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥ (वि.) कपट इति — के शिरसि पट इव आच्छादकः कपटः | कं ब्रह्माणमपि पटतीति वा। ‘पट गतौ' । 'व्यजतीति व्याजः । 'अज गतिक्षेपणयोः' । दनोति हिनस्तीति' दम्भः । 'दम्भु 'आज्ञापने' । उप समीपे धीयत इत्युपधि:' । 'डुधाञ् धारणपोषणयोः' । छाद्यते स्वरूपमनेनेति छद्म । 'छद अपवारणे' । कितवस्य कर्म कैतवम् । कपटनामानि ॥ कुत्सिता सृतिः हिंसा कुसृतिः । 'सृ गतौ' । निकृष्टं 'कृणाति हिनस्तीति निकृतिः। ‘कॄ हिंसायाम्' । शठतीति शठः । 'शठ हिंसासंक्लेशनकैतवेषु' । 7 शठस्य कर्म शाठ्यम् । 'अनात्मकव्यापारनामानि ॥ प्रमाद्यतीति प्रमादः । ‘मदी हर्षे ' । न विद्यतेऽवधानं यस्य सः अनवधानः | तस्य भावः अनवधानता। 10 चित्ताकुलता- नामनी ॥ ३० ॥