पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: (वि.) प्रेमेति – प्रियस्य भावः प्रेमा । प्रेम च । प्रियता च । हृदः कर्म 2 हार्दम् । स्निह्यत इति स्नेहः । 'ष्णिह प्रीतौ । स्नेहनामानि || दोग्धीति दोहः तं ददातीति दोहदम्' । 'दुह प्रपूरणे' । इच्छति ययेति इच्छा' । 'इषु इच्छायाम्' । 'काङ्क्षतिकाङ्क्षा । 'काक्षिकाङ्क्षायाम्। स्पृहयतीति' स्पृहा । 'स्पृह ईप्सायाम्' । ईहनं ईहा । 'ईह चेष्टायाम्' । तृष्यतीति तृट् | तर्षश्च । 'वितृषा पिपासायाम्' । 'वाञ्छतीति वाञ्छा। 'वाछि इच्छायाम्' । लब्धुमिच्छा लिप्सा । 'डुलभष् प्राप्तौ ' । मनो रथो यस्य सः मनोरथ: 9 | 10 काम्यते कामः । 'कमु कान्तौ' । अभिलषति अभिलाषः । 'लष कान्तौ' । इच्छानामानि ॥ तर्षणं 12 तर्षः । 'तृष पिपासायाम् ' । स एवाधिकश्चेत् लालसा । अतिशयेन लस्यते लालसा । 'लस श्लेषणक्रीडनयोः' । भृशतराभिलाषनाम ||२७|| । १३८ 1 प्रेम नपुंसकम् B2; D1 adds 'प्रीञ् तर्पणे कान्तौ च '. 3 स्निह्यत्यनेन A, B1, T. 4 दोहमाकर्ष गर्भिण्यादेर्ददाति I, Ks, W2. 6 काङ्क्षणं Pt2. 7 स्पृहणं Pt2. 8 वाञ्छनं Pt2. स्थितत्वात् Pt2; मन एव रथ: D.. 12 A, B₁, T omit. 10 कम्यते U, W1. हृदये भवं Pt2. 5 एषणमिच्छा Pt2. 9 भ्रामकत्वेन मनसो रथ इक 11 अभिलषणं Pt 2. 1 कृदन्तः नपुंसकलिङ्ग: B3. 2 अन्यसंगृहीता B3. 2 (पा.) प्रेमा - स्नेह: । स्नेहनामानि ॥ पुंलिङ्गप्रेमशब्दस्तद्धितान्तः । नपुंसकलिङ्ग- कृत्प्रत्ययान्तः । तस्मात् – 'स्नेहोऽस्त्री प्रेम सौहार्दमजीर्य हार्दसौहृदे' 2 इत्यन्यसमीरिता संग्रहोक्तिरपि युक्ता । अथ दोहदम् – तर्षश्च । तृष्णानामानि ॥ स महान् लालसा द्वयोः । अत्यर्थमिति वा पाठः । अतितृष्णानाम ॥ २७ ॥ प्रेमशब्दः उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ स्याचिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । उत्साहो व्यवसाय: स्यात् स वीर्यमतिशक्तिभाक् ॥ २९ ॥ (वि.) उपाधिरिति – उप समीपे आधीयते धर्मोऽत्रेति उपाधिः । धर्मचिन्ताया नाम || आधीयते दैन्यमनेन आधि: । 'डुधाञ् धारणपोषणयोः' । मनोव्यथानाम || चिन्त्यते चिन्ता'। ‘चिति स्मृत्याम्' | दारिद्रयादिना वितर्कनाम ॥ स्मर्यत इति "स्मृतिः । 'स्मृ आध्याने' । विस्मृतस्मरणनाम ॥ आ समन्तात् ध्यायते आध्यानम् | 'ध्यै चिन्तायाम् ' । उत्कण्ठात्मकस्मरणनाम | केचित् त्रय एकार्था इति वदन्ति । उत्कण्ठ्यते॰ उत्कण्ठा । 'कठि शोके' । उत्कल्यते उत्कलिका । 'कल संख्याने' । औत्सु-