पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्ग:] दाक्षिणात्यव्याख्योपेतः अनादर: परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥ रीढावमाननावज्ञावहेलनमसुक्षणम् | मन्दाक्षं ह्रीत्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २३ ॥ (वि.) अनादर इति – नाद्रियतेऽनादर ' | 'दृ अदरे'। परिभूयते परिभवः, परीभावश्च । 'भू सत्तायाम् ' । तिरस्करोतीति तिरस्क्रिया' । 'डुकृञ् करणे' । रिहति हिनस्तीति रीढा । रिह हिंसायाम्' । अवमानयतीत्यवमानना' । 'मान पूजायाम्' । अवज्ञायतेऽनया अवज्ञा । 'ज्ञा अवबोधने' । अवहेलयतीति अवहेलनम् । ‘हेड़ अनादरे' | असून क्षिणोतीति 'असुक्षणम् । ‘क्षिणु हिंसायाम्' । 'असूक्षणमिति वा पाठः। 'सूर्क्ष आदरे' | तिरस्क्रियानामानि ॥ मन्दम् अक्षि यत्रेति मन्दाक्षम्। मन्दम् अक्षम् " इन्द्रियमन्त्रेति वा । जिह्वेत्यनयेति 10 हीः । 'ही लज्जायाम् ' । त्रपत इति त्रपा । 'त्रपूष् लज्जायाम्' | "ब्रीड्यतीति ब्रीडा । 'ब्रीड चोदने लज्जायां च ' । 12 वीड शब्दो द्वयोः । लज्जते इति लज्ज । 'ओ लस्जी वीडने' । लज्जानामानि || अपत्रपत 1 इत्यपत्रपा । परादागतहीनाम || २२ - ३ ॥ 1 आदर सत्कारः स न भवतीति Pt2. Dg, I, W1. 4 कत्थयति B2, W1, Ptg. 8 असूक्षणं इति च पाठ: I, W1. 11 वीडयति Ptg. (पा.) भिन्नार्थके। 2 परिभावयति B2. 3 तिरस्करणं Pt2. 5 रिह कत्थनयुद्ध निन्दाहिँसादानेषु' A, B1, T, 7 असूर्क्षणम् अनादर: Pto 10 Pte omits अनया. 13 निकृष्टा त्रपा Ptg. 6 माननं पूजा तद्विरोधिनी Pt2. 9 वाग्यत्र Pt2. १३५ 12 व्रीडशब्दः पुंलिङ्गोऽप्यस्ति Pt2. अनादरः – असूक्षणम् | अनादरनामानि || हलायुधाभिधानेऽनादरावज्ञे ‘अत्याकारः परिभवो निराकारः पराभवः । अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ (अ. मा. ४. १९) 2 हेला स्यादवहेला चावज्ञा रीढा विमानना' ॥ (अ. मा. ४. ३०) इति ॥ मन्दाक्षं – लज्जा | लज्जानामानि ॥ त्रीलशब्दोऽप्यस्ति । ‘ पथि पथिकवधूभिः सादरं पृच्छयमाना कुवलयदलनीलः कोऽयमार्ये तवेति । स्मितविकसितगण्डं त्रीलविभ्रान्तनेत्रं मुखमवनमयन्ती स्पष्टमा चष्ट सीता ॥ ' इति प्रसन्नराघवे ॥ सापत्रपान्यतः । परसकाशाज्जाता लज्जा अपत्रप। स्यात् ।। २२ - ३ ।।