पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्ग:] द।क्षिणात्यव्याख्योपेतः भयंकरं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ।। चतुर्दश दरस्त्रासो भीतिर्भी: साध्वसं भयम् । । (वि). विस्मय इति — विस्मापयतीति विस्मयः | ‘ष्मिङ् ईषद्धसने’ । अत् आश्चर्यार्थेऽव्ययम् । तस्मात् भवं अद्भुतम् । आचरणीयं आश्चर्यमिति साधु । 'चर गतिभक्षणयोः'। चित्रयतीति' चित्रम् । ‘चित्र चित्रीकरणे' | अद्भुतरसनामानि ॥ भीरोरिदं त्रासकरत्वाद् भैरवम् । विभेत्यस्मात् अधीर इति वा भैरवम् । दारयति चित्तमिति दारुणम् । 'विदारणे विभेत्यस्मादिति भीषणम् । भीष्मम् । भीमम् । भयानकं च। ‘ञिभी भये' । घुरतीति घोरम्' | ‘घुर भीमार्थशब्दयोः'। भयं करोतीति भयंकरम्। 'डुकृञ् करणे' । भयं प्रति गतं प्रतिभयम् । भयानकरस- नामानि ॥ कृत् "रोगः, तां राति ददातीति रुद्रः । तस्य कर्म रौद्रम् | उग्रत्वात् उग्रम् । रौद्ररसनामानि॥ अमी अद्भुताद्या: उमान्ताः शब्दाः चतुर्दश त्रिषु लिङ्गेषु वर्तन्ते । 1'दरति विभेत्यस्मादिति दरः । ‘दु भये’ । त्रस्यत्यस्मादि॒िति “त्रासः। ‘त्रसी उद्वेगे’। बिभेत्यस्या इति भीतिः। भीश्च । भयं च । 'ञिभी भये ' । साधूनस्यति बाधत इति साध्वसम् । 'असु क्षेपणे' । भयनामानि ॥ १९-२० ।। । " भवतीति भूतं, तन्न भवतीत्यद्भुतम् ; आसमन्तात् चर्यत 3 I, U, We add अकस्मात्. 4 ‘ चित्रिङ् 1 विशेषेण स्मा° B2. इत्याश्चर्यम् B2; आ: चरणं Kg, Y. आश्चर्ये' Kg. 7 'बुरति यतः तद्वोरम् A, B1, T. 10 I adds 'रा दाने. निरसने' इति वा धातु: B2. 5'दू अवखण्डने' B2 ; 'वॄ भये’ A, T, W1. 8 'प्रतिबिभेत्यस्मात् Bp. 11 दीर्यतेऽस्मात् Pig. १३३ 6 भीषयते Bg, D1, I. 9 रोद: D1. 13 अस 12 त्रसनं Pt2. (पा.) विस्मयो – चित्रमपि । अद्भुतरसनामानि ।। अथ–प्रतिभयम् । भयान- करसनामानि || रौद्रं तूत्रम् | रौद्ररसनामनी ॥ अमी- चतुर्दश । धर्मिधर्मवचना अद्भुतादिशब्दा नियतत्रिलिङ्गा भवन्ति । अद्भुतकरी विद्या अद्भुता। धर्मवचना भैरवादयो नियतत्रिलिङ्गाः । भैरवोऽहिः, दारुणोऽहिः, इत्यादि || दुरत्रासौ – भयम् । भयनामानि । भयरसः साध्वसरस इति रसत्वोपचाराद् रसानन्तरकथनम् ।। १९-२२ ।। 1 अद्भुतादय: B3. 2 B, omits. विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥ गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः । (दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेक: स्मयो मदः ।)