पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ अमरकोशः उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा | कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥ हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् । (वि.) उत्साहेति — उत्साहं वर्धयतीति उत्साहवर्धनः । 'वृधु वृद्धौ' । विरुद्वान् राति हन्तीति वीरः । 'रा दाने छेदने च' । विद्विष्टान् ईरयतीति वा । ' ईर ±क्षेपे’ । वीरयतीति वा वीरः । 'शूर वीर विक्रान्तौ ' । वीररसनाम ॥ कुर्वन्त्यात्मानमदी- नमनयेति करुणा । ' डुकृञ् करणे' | 'कुरुं क्लेशं न सहत इति वा । करुणैव कारुण्यम् । 'घृण्यन्तेऽनुगृह्यन्तेऽनयेति घृणा । 'घृणि ग्रहणे' 'घृणु दीप्तौ' इति वा धातुः । क्रपयते कृपा । ' 'क्रप कृपायाम्' । दयन्ते' रक्षन्त्यनया दया । 'दय दानगतिहिंसा- रक्षणेषु' । अनुकम्पन्तेऽनयेत्यनुकम्पा । 'कपि 'चलने' । अनुक्रोशन्त्यनेनेत्यनुक्रोशः । 'कुश आह्वाने रोदने च' | 'करुणारसनामानि || हासयति 10 जनानिति हसः, हासः, हास्यं च । 'हस हसने' । हास्यरसनामानि ॥ "बीभत्सा निन्दा, सा अनास्तीति बीभत्सम् । सद्विरुद्धत्वात् विकृतम् । बीभत्सरसनामनी || 12 इदं द्वयं तद्वति त्रिषु ||१८|| 6 1 विदुष्टान् W2; विद्विषः ४. 2 प्रेरणे A, B1, T. 4 घृणन्ते B2. A, B1, T. 11 Pt, adds बन्ध बन्धन इत्यस्य निन्दायां सन्. सादिवाचित्वे त्रिषु लिङ्गेषु वर्तेते Pt 2. [ प्रथमकाण्डः 5 कृपयन्ते U, W1, Pt2. 8 किंचिच्चलने Pt 2. 3 करुं क्लेशं नयति Bar 6 कृप K5, Y, Pt2. 7 रक्ष्यन्ते 10 सर्वान् B1. 12 बीभत्सविकृतशब्दौ तद्धेतुशोणितमां- 9 कारुण्य° A, T, W1. (पा.) उत्साह – वीरः । वीररसनाम ॥ " शुच्युज्ज्वलौ तु शृङ्गारो वीर उत्साहवर्धनः' इति व्याडिः । कारुण्यं – अनुक्रोश: । करुणारसनामानि ॥ 'करुणो रस' इति पुंस्त्वमपि । अथो हसः- हास्यं च । हास्यरसनामानि ॥ चशब्दो रूपान्त- रसमुच्चयार्थ: । 'हसिका तु हसो हासो हसनं हास्यघर्घरे' इति । बीभत्सं विकृतम् । बीभत्सनामनी ॥ त्रिष्विदं द्वयम् । इमे द्वे त्रिष्वित्यनेन त्रिलिङ्गे । बीभत्सो रोगः । विकृतो रोग इत्यादि ।। १८ ।। 1 शुचि: A1. 2 हसितं for तु हसो Bg. 3 B4 adds भवतः. विस्मयोऽद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९ ॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् |