पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्ग:] दाक्षिणात्यव्याख्योपेतः १३१ (पा.) अङ्गहारोऽङ्गविक्षेपः । अवयवविक्षेपोऽङ्गहार: स्यात् । व्यञ्जक– समौ । सूच्यार्थसूचननामनी ॥ ‘निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके । व्यञ्जकोऽभिनयो यस्तु सूच्यार्थोऽभिनयस्य च ॥' इत्यनेन सूच्यार्थश्चाभिनयः । अङ्गनिर्वृत्तं स्यादाङ्गिकम् । सत्त्वनिर्वृत्तं स्यात् सात्त्विकम् । द्विशब्दग्रहणेन वाचिकाहार्ययोर्गुणत्वं सूच्यते ॥ १६ ॥ 1 इत्युच्यते B. शृङ्गारवीरकरुणाद्भुतहास्य भयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ (वि.) शृङ्गारेति – शृङ्गारो वीर: करुणा अद्भुतः हास्यं भयानकः बीभत्सः रौद्रः चकारात् शान्तश्च । एते शृङ्गारादयो नव रसा भवन्ति । सामाजिकजनेन रस्यन्त इति रसाः । 'रस आस्वादने' । शृङ्गं युवादिकमियर्तीति शृङ्गारः । 'ऋ गतौ ' । 'जुगुप्सादिरहितत्वात् शुचिः | उज्ज्वलति प्रकाशते उज्ज्वलः । 'ज्वल दीप्तौ' । शृङ्गार- रसनामानि ॥ १७ ॥ 1 शान्तिश्च A, T, W1; वात्सल्यं दशम: Pt2. 3 के ते रसा इत्याकाङ्क्षायां क्रमेण प्रतिपादयति Bg. 5 परिशुद्धत्वात् Pt.. 2 सामाजिकेन A, B1, T. शृङ्गं श्रेष्ठं B1, Y; प्राधान्यं Pt2. (पा.) शृङ्गार रसाः । शृङ्गारादयोऽष्टौ रसशब्दवाच्याः । चशब्दो मतान्तर- बोधनार्थ: । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । वीभत्स।द्भुतशान्ताश्च नव नाट्यरसाः स्मृताः॥' शृङ्गारवीरौ बीभत्सरौद्रौ हास्यं भयानकम् । करुणाद्भुतशान्ताश्च वात्सल्यं च रसा दश || ' इति । द्वादशरसा इति केचित् । शृङ्गारः – उज्ज्वलः । शृङ्गाररसनामानि ॥ १७ ॥ 1°बोधन AT. 6