पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० अमरकोशः अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे । हण्डे हजे हलाह्वानं नीचां चेटीं सखीं प्रति ।। १५ [प्रथमकाण्डः (वि.) अत्तिकेति — अत्ति भ्रातृभार्यां वचनैरिति अत्तिका। ‘अद भक्षणे’। ज्येष्ठभगिनीनाम || नियतं स्थानं निष्ठा । निःशेषेण वहनं प्रस्तुतकथायाः समाप्तिः निर्वहणम् । समे इति समानार्थे । नाटकस्य निर्वहणाख्यपञ्चमसंधिनामनी ॥ हण्डे इति नीचां प्रति, हञ्जे इति चेटीं प्रति, हला इति सखीं प्रति आह्वानम् । एते त्रयः संबोधनार्थे अव्ययाः ॥ नाट्योक्तयः' समाप्ताः ।। १५ ।। 1 अत्ति क्षणयति (परुषवचनैः Kg) B2. 2 अत्र तिष्ठन्ति, ‘ष्ठा गतिनिवृत्तौ' B2. 3 नितरां वहतीति B2. 4 ' मुखं प्रतिमुखं गर्भ: सावमर्शोपसंहृतिः ' U. 5 नाट्योक्त विधिः समाप्त: B2, I. (पा.) अत्तिका – ज्येष्ठा । ज्येष्ठभगिनी अत्तिका स्यात् । अनुक्तम्–‘कनिष्ठा तु बलाबुसा' । कनिष्ठा' स्वसा बलाबुसा स्यात् । निष्ठा – समे । प्रस्तुतकथासंहारः निष्ठा च निर्वहणं च स्यात् । हुण्डे – सखीं प्रति । नीचाहाने हण्डेशब्दः प्रवर्तते । चेटिकाहाने हञ्जेशब्दः । सख्याह्वाने हलाशब्द: 2 | ‘हला सौन्दले' । 'हलिलेशब्दोऽप्यस्ति । 'हलिले' जनमध्ये याचितवत्यसि' । हण्डे हञ्जे हलेति शब्दास्त्रयः संबोधनार्थका इति प्राकृतसंजीविन्य।मव्ययपरिच्छेदे कथितत्वाव्ययाः ।। १५ ।। 1 A1 omits. 2 B3 adds प्रवर्तते. 3 हरिते B3. 4 ° संजीवन्यां B3. अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ।। १६ ।। (वि.) अङ्गहार इति–अङ्गानां हारोऽन्यत्रानयनम् अङ्गहारः' । अङ्गानां विक्षेपो- ऽङ्गविक्षेपः । स्थानात् स्थानान्तरानयनरूपक्रियानामनी ॥ व्यनक्त्यर्थं व्यञ्जकः । 'अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु ' । आभिमुख्येन नीयतेऽनेनार्थः अभिनयः । ‘णीञ् प्रापणे ' । वाचिकाङ्गिकस।त्त्विकाख्यभावसूचकनामनी ॥ अङ्गेन निर्वृत्तम् आङ्गिकम् । सत्त्वेन निर्वृत्तं सात्त्विकम् । सत्त्वोत्कटे मनसि पुलकित | द्यभिनयनामनी ॥ १६ ॥ 3 सर्वोत्कटे 1' हृञ् हरणे' B2; स्थानान्तरानयनं Pt2. 2 Kg omits 4 lines. A, B1, T.