पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १२९ भर्तृदारिकाशब्दः भर्तृदारकशब्दवत् । राजपुत्रीनाम || दीव्यतीति देवी । 'अभिषिक्तराज- पत्नीनाम || भटति उद्धतं भाषते भट्टिनी । अकृताभिषेकराजभार्यानाम ॥ १३ ॥ 1 भटा: सेवका: तैर्युद्धमुत्तारयति 'तू प्लवनतरणयोः' Pt2. 2 कृताभिषेक° W2. 3 D1, Y omit 3 pages; 'भट परिभाषणे' W2. (पा.) राजा - देवः । नृपः भट्टारको देवश्च स्यात् । नामान्ते प्रयुक्ता अप्येते पूज्यमपि कथयन्ति । 'पाद| इति नामान्ते देवो भट्टारको वापि ' इति हलायुधः (अ. मा. १. १५५) । तत्सुता भर्तृदारिका | राजसुता' भर्तृदारिका स्यात् ॥ देवी कृताभिषेकायाम् । महिषीनाम || इतरासु तु भट्टिनी । अन्या राजपत्न्यः भट्टिन्यः स्युः ॥ १३ ॥ 1 A1 omits. 2 राजपुत्री B. 3 °भार्या : Ba. अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः | अम्बा माताथ बाला स्याद् वासूरार्यस्तु मारिषः ॥ १४ ॥ (वि.) अब्रह्मण्यमिति – ब्राह्मणोऽवध्य इत्युक्ति: अब्रह्मण्यम् । ब्रह्मणो हितं ब्रह्मण्यं, शान्तता, तदविद्यमानमत्रेति वा । अवध्योक्तिनाम || राज्ञः श्यालः” राजश्यालः । राष्ट्री राज्ञी तस्या भ्राता राष्ट्रियः । राजपत्नीभ्रातृनाम || अम्च्यते शव्यते 'बालैरित्यम्बा । ‘अवि शब्दे' । मातृनाम || वसति मातुः समीप इति वासूः । 'वस निवासे'। बालानाम || मायामियर्ति गच्छतीति मारिष: ' । 'ऋ गतौ' । 'आर्यनाम ॥ १४ ॥ 2 स्याल: Y. 1 ब्रह्मणि साधु न भवतीति, अवयवानर्थ्ये इत्येके D1, I, Ks; अवयवानर्थमित्येके Y. 3 भावे: A, B1, T. 4 मारयति पापानिति मारिष: । मर्षणात् सहनाद्वा Pt2. 'आरात् पापकर्मभ्यो यातीत्यार्यः, अरणीयः अभिगम्यो वा Pt.. 5 (पा.) अब्रह्मण्यमवध्योक्तौ । अवध्योऽस्मीत्युक्तिरवध्योक्तिः। तस्यामाक्रोशनेऽपि अब्रह्मण्यशब्दः स्यात् ।। राज्ञः- राष्ट्रियः । राज्ञः पत्नीभ्राता राष्ट्रियः स्यात् । अम्बा माता । जननी अम्बा स्यात् । 'अम्ब सरस्वति क्रिमियं तव माता विष्णुवल्लभा 'देवी' । अथ – वासूः । बालिका वासूरित्युच्यते । 'वासु- देवालयं गत्वा सोमं शंकरमर्चय' आर्यस्तु मारिष: । आर्यनाम । मार्षोऽपि भवति । 'आयौँ मारिषमार्पकौ” इति वैजयन्ती (पृ. १४४, श्लो. १०६) । अनुक्तम्– 'क्षपणाद्या भदन्ताः स्युः' । क्षपणसौग- तादयो भदन्ता इत्युच्यन्ते ॥ १४ ॥ 2 देवि A1. 3 °मार्षिकौ A1, B2- 1 A1 omits तस्यां. 9