पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः (वि.) वाद्यप्रभेद इति – डमिति ' शब्दमियर्ति डमरुः। ‘ऋ गतौ’ । मड्डु इति उच्चारणात् मड्डु: । डिंडिमिति शब्दं करोतीति डिण्डिमः । झर्झशब्दं करोतीति 4 झर्झरः। मृद्यत इति 'मर्दलः । 'मृद क्षोदे' | 'पणाज्जायते पणवः । पण्यते स्तूयते- sनेनेति वा । ' पण व्यवहारे स्तुतौ च । एते च अन्ये च वाद्यप्रभेदाः ।। नृत्यतीति नर्तकी । 'नृती गात्रविक्षेपे' । 'लसति क्रीडति रङ्गभूमाविति लासिका । 'लस श्लेषण - क्रीडनयो: ' ॥ नृत्तकारिणीनामनी ॥ ८ ॥ 6 २२६ 1 Ks adds अव्यक्तं. 2 उच्चारणत्वात् B1. · 4 झर्झते भाषते, झर्झति शब्दं रातीति Pt2. 5 मद्दल: W1. 7 लस्यति D1. 8 नृत्य ° Ks, W1; नर्तनकरीणां A, B1, T. 3 मिनोति प्रक्षिपतीति Pt2. 6 पणायते U, W2. (पा.) वाद्यप्रभेदाः – अन्ये च । डमर्वादयश्चान्ये घण्टानि:साणादयश्च वाद्यभेदाः । नर्तकी–समे । नृत्तकारिणीनामनी ॥ अनुक्तम् – 'रङ्गः स्यान्नर्तनस्थानम्' । ] नर्तनस्थलं” रङ्गः स्यात् || 'सूत्रधारस्तु सूचकः' । सूत्रधारनाम ॥ ८ ॥ 1 A1 adds अन्यशब्दगृहीत. 2 निः सान: B1. 3 ° स्थानं B3. ८ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाटयं लास्यं नृत्यं च नर्तने । (वि.) विलम्बितमिति—‘विलम्बितं द्रुतं मध्यम् इति लयविशेषाः क्रमात् तत्त्वम् ओघ: घनमित्युच्यन्ते । तलन्ति गीतवाद्यनृत्तानि तिष्ठन्त्यत्र ताल: । 'तल प्रतिष्ठायाम्' । मध्यकालक्रियायाः परिच्छेदकनाम ॥ लीयतेऽत्रेति लयः । 'लीड श्लेषणे' । न्यूनाधिकरहिततालसाम्यनाम ॥ तण्डुना शिवेनोपदिष्टं ताण्डवम् । उद्धत- प्रयोगनर्तननाम | नट्यते नटनम् । 'नट नृत्तौ' | नटस्य कर्म नाट्यम् | 'नटनर्तननाम ॥ लसतीति लास्यम् । 'लस श्लेषणक्रीडनयो: ' । सुकुमारप्रयोगनर्तननाम ॥ नृत्यतीति नृत्यम् । 'नृती गात्रविक्षेपे' । नर्तननामानि॰ ॥ ९ ॥ 1 Ptg adds विलम्बन्ते करपदादयोऽत्रेति विलम्बितम् । प्रत्येकं गतिविशेषत्वात् । ‘लबि लम्बने’। द्रवन्ति त्वरन्ते करचरणादयोऽत्रेति द्रुतम् । 'द्रु गतौ' । विलम्बितद्रुतयोर्मध्ये भवत्वान्म- 2 मेयायाः गानक्रियाया: Ks, W2; एषां पर्याया इत्येके | नाट्येऽपि विलम्वितादि- ध्यम्.