पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥ ८. नाट्यवर्गः] (वि.) वीणादण्ड इति – प्रवलन्ते सर्वे स्वरा अत्रेति प्रवाल: । ‘वल संवरणे संचरणे च' । 'अचाल इति वा पाठः । 'चल कम्पने' । वीणादण्डनाम || स्वालम्बनाय दण्डं ककते आकाङ्क्षतीति ककुभ: । 'ककि लौल्ये' । प्रकर्षण सेव्यते प्रसेवकः । ‘पेवृ सेवने’। दण्डा॰लम्बनायालाबूमूलनिक्षिप्तसंदंशाकार' सारदा रुनाम' || 'कुल्यते सम्यक् स्त्यायतेऽनेन शब्दः कोलम्बकः । 'कुल संस्त्याने बन्धुषु च ' । के शिरसि तन्त्रीरवलम्बते इति वा कोलम्बकः । ‘लवि शब्देऽवस्रंसने च' । वीणायाः दण्डादिसर्वपरिकरनिष्पन्न- 'मूर्तिनाम || उपनह्यन्ते तन्त्र्योऽनेन उपनाह: । 'ह वन्धने' । निबध्यन्ते तन्त्र्योऽनेन निबन्धनम् । 'बन्ध बन्धने' | तन्त्रीबन्धस्थाननामनी ॥ ७ ॥ 1 - स्वना: B1, D1, W2. U, W1. B2, W2. 5 ° अवलम्बनाय 8 कोलति W2. इत्यादि ॥ ७ ॥ 2 संचलने D2, K5, T. 3 प्रवार ए. 6 °स्वर° U. K5, U. 9 ° शरीर ° W1. 4 ककते K5, 7 ° साधन विशेषपर्वनाम 10 संबध्यन्ते B2. ' हे लक्ष्मि स्यादलिन्द्राणामपि संस्पृश मे वपुः । तन्त्रीः कर्णामृतं कूज तन्द्रीः संश्रय चक्षुपी ॥ वातप्रमीर्वसाटव्यां तरीस्तर्पय चातकम् । धत्स्व स्तनांशुकम् || ' १२५ (पा.) वीणादण्ड: प्रवाल: स्यात् । वीणादण्डनाम || ककुभस्तु प्रसेवकः । दण्डावलम्बनायालाबूमूलनिक्षिप्त संदंशाकारसारदा रुनामनी । भाषया 'बैसण ' ॥ कोलम्ब- कस्तु कायोऽस्या: । वीणाया दण्डादिसर्वपरिकरनिष्पन्नमूर्तिः कोलम्बकः स्यात् । उपनाहो निबन्धनम्। तन्त्रीनिबन्धनस्थाननामनी । भाषया 'करिभे’ ॥ अनुक्तम्–‘वीणागुणे स्त्रियां तन्त्रीः ' । वीणागुणनाम । 'अवितृस्तृतन्त्रिभ्य ई: ' ( उ. ३. १५८) इति ई:प्रत्ययान्तत्वात् सुलोपो नास्ति । तन्त्रीः तन्त्र्यौ तन्त्र्यः | हे तन्त्रीः इत्यादि । अत्र विशेषः । लक्ष्मीप्रभृतीनाम् (र्थनयोर्हस्व:' (७.३.१०७) इति ह्रस्वत्वं केचन नेच्छन्ति । प्रयोगास्तु बहवो दृश्यन्ते । वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः । मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥