पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ अमरकोशः 'हरीतक्याकृतिस्त्वङ्कयो यवमध्यस्तथोर्ध्वकः । आलिङ्गयश्चैव गोपुच्छ आकृत्या संप्रकीर्तितः ॥ १ इति सुभूतिटीकायामाकृतिभेदः' कथितः ॥ ५ ॥ 1 °निर्घोषो A1, B3 2 वादने मूर्च्छनानने A1, B1. 4 सुबोधिनी° A1. 5 ° भेदात् भेद: A1. [प्रथमकाण्डः 3 पुच्छस्य B3. स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् । आनकः पटहोऽस्त्री स्यात् कोणो वीणादिवादनम् ॥ ६ ॥ (वि.) स्यादिति – यशोनिमित्तं पटहः यशःपटहः । ढगिति व्यक्तं कायतीति ढक्का । 'कै शब्दे ' । यात्रादौ 'वाद्यमानयशःपटहनाम || बिभेति अस्याः परसैन्यमिति' भेरी । 'ञिभी भये' | दुन्दु इति शब्दंं भाषते दुन्दुभिः । शत्रुहृदयं 'भिद्यत इति वा । भेरीनामानि ॥ आ समन्तात् नदतीत्यानकः । 'णद अव्यक्ते शब्दे ' । अनेन स्वपक्षः आ समन्तात् अनिति' वा । 'अन प्राणने' । पटवत् हन्यते पटहः । पणव इति पाठे पण्यते स्तूयते पणवः । ' पण व्यवहारे स्तुतौ च ' । परसेनाभीत्यर्थवाद्यना- मानि ॥ अनेन कुणति वीणादिवाद्यमिति कोणः । 'कुण शब्दोपकरणयोः' । वीणादिवादन - दण्डनाम ॥ ६ ॥ 3 हन्यमान ° B1, 1 यशसे D1, W1; यशसि A, B1, T; यशोऽर्थं Pt2; पटु यथा तथा हन्यते, 'हन हिंसागत्योः' B2, U. 2 अव्यक्तं D1, I, K, W1; वादयति K2. D1, K1, W1. 4 रवात् B2, D2; रवेण Ks, W2. 6 द्यतीति वा, 'दोऽवखण्डने' B2, D1. 7 Ba adds प्राणिति 5 ° सेना Ba, K5, U, W1. (पा.) स्यात् — ढक्का । सामन्तढक्कानामनी । भेरी – पुमान् । भेरीनामनी । आनकः – स्यात् । अस्त्रीशब्द उभयविशेषणम् । 'पटहस्त्वा नकोऽस्त्रियाम्' इति वैजयन्ती (पृ. १४६, श्लो. १३४ ) | पटहनामनी ॥ अनुक्तम् – 'वंशस्तु वेणुर्मुरली' । 2 मुरलीनामानि ॥ ' शृङ्गं खुरमुखं समे' | शृङ्गनामनी । आन्ध्रभाषया 'बूरगोम्मु' | 'काहली तु कुहाला स्यात् ' | काहलीनामनी ॥ 'ढेङ्गुरा जयघण्टिका' । आन्ध्रभाषया 'जांयंट' पेरु' । 'ताली द्वयोः कांस्यतालः पुमान् स्त्री तालपत्रिका ' । तालनामानि ॥ कोणो वीणादिवादनम् । वीणादिवादनसाधनन म ॥ ६ ॥ 1 अस्त्रियौ इति मुद्रितग्रन्थे. 2 वेणु° A1. 3 ' जाघटपेर्लु' A1.