पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १२३. (पा.) ततं – वाद्यम् । वीणादिवाद्यं ततं स्यात् || आनद्धं मुरजादिकम् | मुरजादिवाद्यमानद्धं स्यात् ।। वंशादिकं तु सुषिरम् । वंशादिवाद्यं सुषिरं स्यात् ॥ कांस्यं – घनम् । कांस्यं तालादिकं वाद्यं घनं स्यात् ।। केचन मुरजादिवाद्यमपि घनमिति वदन्ति । कांस्यं तालादिवाद्यं ततमिति च कथयन्ति ॥ ४ ॥ 1 B3 adds कांस्यविकार: 2 केचित् B3, B1. 3 B3 adds केचित् . चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् | मृदङ्गा मुरजा भेदास्त्वङ्कयालिङ्गयोर्ध्वकास्त्रयः ॥ ५ ॥ (वि.) चतुर्विधमिति – वाद्यत इति वाद्यम् । वादित्रं च । आ समन्तात् 'तोद्यत इत्यातोद्यम् । 'तुद व्यथने' । 'ततादिचतुर्विधवाद्यनामानि ॥ मृद्यत इति मृदङ्गः । मृत् मृत्स्ना अङ्गे यस्येति वा । 'मृद मर्दने' । मुरतीति मुरः । 'मुर संवेष्टने'। मुरः चर्मपट्टिकासंवेष्टनम् । तस्माज्जातो मुरजः । मृदङ्गनामनी ॥ अङ्के भवः अङ्कयः । अङ्कोपरि निधाय वाद्यते वा । हरीतक्याकृतिमृदङ्गनाम ॥ आलिङ्गयते आलिङ्गय वाद्यत इत्यालिङ्गयः । गोमुखाकृतिमृदङ्गनाम ॥ अङ्की आलिङ्गी इति वा पदच्छेदः । तदा तदाख्या ततो भवतीति विग्रहः । 'ऊर्धीकृत्य वाद्यत इत्यूर्ध्वकः । यवमध्याकृतिमृदङ्ग- नाम ॥ ५ ॥ 1 वादयन्ति एनमिति Pt2. 2 ' वद व्यक्तायां वाचि' D1, I. B1, D2, Ptg. 4 तन्त्र्यादि A, B1, T, W1; यदाह भरतः - 3 5 अङ्के उपनिधाय Dr. आतुद्यत इति 'ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ॥' इति (ना. शा. २८. १) Ba, Da, I. 6 ऊर्ध्वस्थ: सन् कायति Ptg. (पा.) चतुर्विधमिदं – नामकम् । इदं चतुर्विधं वाद्यम् । वादित्रमातोद्यमिति च नामद्वयवद् भवति । वादित्रशब्दो वाद्यध्वनावपि वर्तते । 'तूर्योऽस्त्री वाद्यनिर्घोषे वादित्रं वादनं च तत्' इति वैजयन्ती (पृ. १४७, श्लो. १३६ ) | मृदङ्गा मुरजाः । मुरजनामनी ॥ वक्ष्यमाणभेदापेक्षया बहुवचनम् | भेदाः - त्रयः । अङ्कयः, आलिङ्गयः, ऊर्ध्वक इत्येते त्रयो मुरजभेदाः । 'पूर्वः पूर्वो महानेषामेतत् पुष्करमण्डले' इति वैजयन्त्यां (पृ. १४६, श्लो. १३०) परिमाणभेदोऽभ्यधायि ।