पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः ॥' (सं. म. १. १. १३-१४) ८. नाट्यवर्गः] इति ॥ १ ॥ 1 नर्दन्ति B4; रम्भत्वथ° A1; चातको ऋषभं तथा, अजो विरौति इति मुद्रितग्रन्थे. काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ २ ॥ (नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः । स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ।।) १२१ (वि.) काकलीति - कु: 1 सूक्ष्मः स चासौ कलश्च' काकली | सूक्ष्मकलनाम ॥ कं सुखं लातीति कलः । 'ला दाने ' । कलयतीति वा । 'कल शब्दे ' । अव्यक्तमधुरध्वनि- नाम ॥ मन्दते शनैः 4 निःसरतीति मन्द्रः । 'मदि स्तुतिमोदमदस्वप्रकान्तिगतिपु' । गम्भीरध्वनिनाम ॥ तारयति संदेहं' तारः । 'तू प्लवनतरणयोः' । अत्युच्चध्वनिनाम || त्रयस्त्रिषु । 'कलमन्द्रताराः त्रिषु वर्तन्ते, विशेष्यनिघ्ना इत्यर्थः ॥ २ ॥ 1 कुत्सितश्चासौ कलश्च काकल: सोऽत्रास्तीति Ba; काकलि: A, T, U. 2 कलि: K1. 3 मन्द्यते D2, I, U, W2. 4 निरस्यति D1. 5 संदेहे W1; संदेहान् A; स्थानेभ्य: स्वरमिति Pt2. 6 I adds त्रयः (पा.) काकली - सूक्ष्मे । कलसूक्ष्मध्वनिः काकली स्यात् । ध्वनौ- --कलः । मधुरास्फुटध्वनिः कलः स्यात् । मन्द्रस्तु_ गम्भीरे । गम्भीरध्वनिः मन्द्रः स्यात् । तारोऽत्युच्चैः। अत्युच्चध्वनिः तारः स्यात् ॥ त्रयस्त्रिषु । एते त्रयः त्रिष्विति वाच्यलिङ्गाः । 2 कला रुतिः, मन्द्रा रुतिः इत्यादि ॥ २ ॥ 1 सूक्ष्मकण्ठध्वनि: B3. 2 कला मन्द्रा तारा रुतिरित्यादि B3. समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । विपची सा तु तन्त्रीभिः सप्तभिः परिवादिनी || ३ || (वि.) समेति–समन्वितोऽनुगतो लयः श्रुता दिर्यत्र समन्वितलयः। एकः सम: तालो मानमस्य एकताल: । एकतान इति वा पाठः । तालाद्यन्वितलयनाम ॥ वेति