पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० अमरकोशः ८. नाट्यवर्ग: निषादर्ष भगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः खराः ॥ || इति ॥ १ ॥ (वि.) निषाद इति – निषीदन्त्यत्र स्वरा इति निषाद: । 'षद्ल विशर- जगत्यवसादनेषु' । 'ऋषभस्वरसंवादित्वात् ऋषभः । गां वाचं धारयतीति गान्धारः । गन्धं गृह्णातीति गान्धं घ्राणेन्द्रियम् । तस्मिन् इयर्तीति वा गान्धार: । 'ऋ गतौ' । षट्सु 'नासाकण्ठोरस्तालुजिह्वादन्तस्थानेषु जायत इति षड्ज: । 'जनी प्रादुर्भावे' । 3 मध्यं मातीति मध्यमः । ' मा माने वर्तने च' । मोक्षं धावतीति धैवतः । 'धावु गतिशुद्ध्योः’। धीर्हृत् तद्वत्सु नाभ्यादिस्थानेषु भवो वा धैवतः । पिकैः पञ्च्यते पञ्चमः । 'पचि विस्तारवचने' । पञ्चसु ' स्थानेषु मातीति वा । ' मा माने वर्तने च ' । एतानि सप्त तन्त्रीकण्ठोत्थितस्वरनामानि || स्वयं राजते स्वरः । 'राजू दीप्तौ' । श्रुतिस्थाने स्वहृदयं रञ्जयतीति वा । 'रञ्ज रागे ' ॥ [ प्रथमकाण्डः 6 * षड्जं मयूरा ब्रुवते गावस्त्वृषभभाषिणः | अजाविकं तु गान्धारं पिक : 10 कूजति पञ्चमम् । धैवतं हेषते वाजी निषादं बृंहते 2 गजः ॥ ' वृषभ° D2. 2 उदर° K1. 3 मध्ये B2, D1. 5 दैवत इति वा पाठः, तत्पक्षे दिवि सुखप्राप्तिस्थाने भवः B2. 5 7 °कण्ठोक्त° A, B1, T. 8 सहृदयं D2; स्वं हृदयं W.. 10 क्रौञ्चः कणति मध्यमं B2, D1, W1, Y; पुष्पसाधारणे काले पिक: कूजति पञ्चमम् D2, I, K1, U. 11 भाषते B1, W2. 12 ब्रुवते गजा: B1, W2.

  • षड्जं रौति मयूरस्तु — Nārada

Apte's Dict., p. 1583. ‘षड्जं मयूरो वदति गावो रम्भन्ति चर्षभम् । अजाविकौतु गान्धारं को नदति मध्यमम् || 4 वर्तमाने च W1. 6 पञ्चस्थानेषु B1. 9 गावो ऋषभ ° D2. (पा.) निषाद – स्वरा: । तन्त्रीकण्ठयोरुभयोर्जायमाना निषादादयः सप्त खर- शब्दवाच्याः । तत्स्वरूपे नारदः-