पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः 1 अविस्पष्ट ° I, K3. 2 विरता K2, K5. 4 ‘ ऋ शब्दे', अर्यते उपदिश्यते B1, U; आद्रियते D1. ७. शब्दादिवर्गः] (पा.) अथ म्लिष्टमविस्पष्टम् । अस्पष्टबालकिराता दिवचनं म्लिष्टं स्यात् ॥ अनुक्तम् – 'गद्गदं गलमूलस्थम्' । गलमूलस्थवचनं गद्गदं भवति ॥ 'तुम्बकं स्पृष्टनासि- कम्’ । नासिकां स्पृष्टोद्गच्छद्वचनं तुम्बकमित्युच्यते । वितथं – वचः । असत्यवचन- नामनी॥ आहतमसद्भूतार्थकथनम् । असत्यं सद्भूतापलापः || सोल्लुण्ठनं तु सोत्प्रासम् । उत्क्रोशवचननामनी ॥ मणितं रतिकूजितम् । रतिकालगलरवनामनी ॥ सत्यं – सम्यक् | सत्यवचननामानि ॥ अमूनि त्रिषु तद्वति । 'सत्यादिशब्दाः सत्यवत्यर्थे त्रिलिङ्गा भवन्ति । सत्यो देवदत्तः । सत्या यज्ञदत्ता | सत्यं कलत्रमित्यादि |॥ २१ ॥ श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपद्पारिजाते वाग्वर्गः 2 B3 omits कथनं. 3 आलाप: A1. 4 °आदीनि B3. इति तुम्बुकं A1. ११७ 3 रूयते, ‘रु शब्दे ' K1, K2. 5 नरसिंह ° A1. ७. शब्दादिवर्गः शब्दे निनादनिनदध्वनिध्वानरवस्वनाः । खान निर्घोष निर्हादनादनिखाननिखनाः ॥ १ ॥ आरवारावसंरावविरावा अथ मर्मरः । स्खनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ॥ २ ॥ (वि.) शब्द इति — शब्द्यते इति शब्दः । ' शब्द शब्दक्रियायाम्' । निनदतीति निनादः । निनदश्च । 'णद अव्यक्ते शब्दे ' । 'ध्वनतीति ध्वनिः । ध्वानश्च । 'ध्वन शब्दे ' । 'रूयते रवः । आरवः । आरावः । संरावः । विरावश्च । 'रु शब्दे ' । स्वनतीति स्वनः । स्वानश्च । 'स्वन शब्दे ' । निर्घुष्यते' निर्घोषः। 'घुषिर् विशदने' । नितरां ह्रादते निर्ह्रादः । 'ह्राद अव्यक्ते शब्दे ' । नदतीति नादः । 'द अव्यक्ते शब्दे'। निस्वाननिस्वनशब्दौ स्वानशब्दवदुन्नेयौ । समुद्रघोषादिशब्दनामानि || 'मर्मरध्वनिर-