पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ अमरकोशः अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् | [प्रथमकाण्ड: (वि.) अम्बूकृतमिति – निष्ठीव संपर्कात अम्बूक्रियते अम्बूकृतम् । निष्ठीवसहि- तवचननाम' | 'ष्ठिवु निरसने' ॥ यत्रार्थसंबन्धो नास्ति तदबद्धम् । “बन्ध बन्धने' । संबन्धशून्यवचननाम ॥ न सन्त्यक्षराणि यत्र अनक्षरम् । अवाच्यवचननाम ॥ आहन्यत इत्याहतम्" | मिथ्यार्थवचननाम ॥ २२ ॥ 3 Kg adds बध्यत 1 ° संपर्कवशात् A; निष्ठीवनात् हेतोरुत्पन्नमम्बु लाला, तेन सह कृतम् अम्बूकृतं, समान- कालोत्पन्नमित्यर्थ: B2. 2 B2 adds निष्ठीवेन सहितं सनिष्ठीवम्. इति बद्धं, बद्धं न भवतीत्यबद्धं. 6 A adds 'हन हिंसागत्यो: '. 4 ' बन्ध संयमने ' I, Ki, Y. 5 अनक्षरवचननाम Ks. (पा.) अम्बूकृतं सनिष्ठीवम् | लालासहितं निष्ठीवनिर्यद्विन्दुसहितं च वचन- मम्बूकृतमित्युच्यते ॥ अबद्धं स्यादनर्थकम् । समुदायार्थशून्यं दशदाडिमादिव।क्यमबद्धं स्यात् || अनक्षरमवाच्यं स्यात् । हस्तनेत्रादिव्यञ्जितवचनमनक्षरमित्युच्यते ।। आहतं तु मृषार्थकम् । एष 'वन्ध्यासुतो याति — इत्यादिवचनमाहतं स्यात् ॥ २० ॥ 1 स्यात् B3. 2 वन्ध्यासुतः पश्यति B. (सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् । श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ||) अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । इति वाग्वर्गः (वि.) अथेति – म्लेच्छतीति म्लिष्टम् । 'म्लेच्छ अव्यक्ते शब्दे' । क्लिष्टमिति पाठे किश्यत इति क्लिष्टम् । 'क्लिशू विबाधने' । अस्पष्टवचननाम ॥ विगता तथा सत्यमत्रेति वितथम् । अनृतवचननाम ॥ सति धर्मे साधु सत्यम् । तथा सत्यमत्रास्तीति तथ्यम् । सद्भिरर्यते॰ ऋतम् । 'ऋ 'गतौ' । समञ्चतीति सम्यक् । 'अञ्चु गतौ याचने च' । सत्यवचननामानि ।। अमूनि तद्वति गुणिनि त्रिषु वर्तन्ते ॥ २१ ॥ इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृत्तौ वाग्वर्गः