पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्ड: (पा.) विप्रलापो विरोधोक्तिः । परस्परविरोधोक्तिर्विप्रलापः स्यात् ॥ संलापो भाषणं मिथः । परस्परभाषणं संलाप: स्यात् । द्वयोरन्यतरस्यालापः, द्वयोरपि संलाप इति 1 विशेषः ॥ सुप्रलापः सुवचनम् | सुवचननाम ॥ अपलापस्तु निह्नवः । निह्नववचननाम ॥ अनुक्तम् – 'काक्का वर्णनमुल्लापः ' । काका 'कथितवचनमुल्लाप: स्यात् ॥ 'प्रियवाक् चाटुरस्त्रियाम्’ । प्रियवचनं चाटु स्यात् ॥ १६ ॥ 1 भेद: A1. 2 वर्णित B3. ११४ संदेशवाग् वाचिकं स्याद् वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात् कल्या तु शुभात्मिका । (वि.) संदेशवागिति – वाचोऽस्मिन् सन्तीति वाचिकम् | संदेशवचननाम ॥ उत्तरे वाग्भेदा स्त्रिषु वर्तन्ते । रुशति कल्याणमिति रुशती । 'रुश हिंसायाम्' । उषतीति पाठे' ' उष प्लुष दाहे' | अमङ्गलोक्तिनाम ॥ कलयितुमर्हतीति कल्या । 'कल गतौ संख्याने च' । कलासु क्रियासु साधुरिति वा । शुभवचननाम ॥ १७ ॥ 1 B2 adds लिङ्गेषु. 3 तत्पक्षे उपति कल्याणं B2. (पा.) संदेशव|ग्वाचिकं स्यात् । संदेशवचननाम | वाग्भेदास्तु त्रिषूत्तरे । 1 उपरि वक्ष्यमाणा वाग्भेदा वागादिशब्दप्रयोगे त्रिषु वर्तन्ते । 'विशेषयानुक्तौ तूक्त- लिङ्गाः । रुशती वागकल्याणी | अकल्याणी वाग् रुशती स्यात् । रुशती वाक् | रुशन् व्याहारः । रुशद् भाषितम् । रुशतीं न ब्रूयात् कल्यामेव वदेत् । उषती वागकल्याणीति पाठादुषत्यपि भवति ॥ स्यात् कल्या तु शुभात्मिका | शोभना ' वाक् कल्या भवति ॥१७॥ 1 B3 omits. 2 रोषति जिघांसति कल्याणमिति रुषती । 'रुष हिंसायां' B2. 4 कलयति संख्यातुमर्हति Ks, U. 5 क्रीडासु W2. 5 स्यात् B3. 2 °गम्यत्वे A1. 3 B4 adds एव. 4 शोभनात्मिका A1. अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् ॥ १८ ॥ निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये । (वि.) अत्यर्थमधुरमिति – सान्त्व्यते प्रयत्नेन सान्त्वम् । 'षान्त्व सामप्रयोगे'। अतिमधुरवचननाम || हृदयं गम्यतेऽनेन हृदयंगमम् । 'गम्ऌ' गतौ' । 'संबन्धार्थ- 6