पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. वाग्वर्गः] दाक्षिणात्यव्याख्योपेतः १९१ वा पाठः ।। स्तूयतेऽनेन स्तवः । स्तोत्रं । स्तुतिश्च | ‘टुञ् स्तुतौ' । नूयतेऽनेन नुतिः। ‘णु स्तुतौ’। प्रशंस।नामानि ॥ आम्रेड्यतेऽसकृदुच्यते आम्रेडितम् । ‘म्रेडृ उन्मादे'। असकृद्भाषितनाम । घुष्यत इति घोषणा । 'घुषिर् शब्दे'। आज्ञापयितुं सर्वजन- बोधनार्थं पटहादावुच्चैः कृतशब्दनाम ॥ ११ ॥ 1 शब्दायते A, B1, T. 2 इयतींति वा कीर्तिः, 'ऋ गतौ ' B1, D1, K5, W2, Y. 3 समज्ञेति वा पाठः, समन्तात् ज्ञायते, 'ज्ञा अवबोधने' B2, D2, Y. 4 विशब्दने A, D1, K1, K2. 5A omits आदौ. (पा.) यश: - समाख्या च समाख्या तुल्यलक्षणमिति हलायुधानुसारी पाठः । 'यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः' इति हलायुधः (अ. मा. १. १५३) । यशः कीर्तिः समाज्ञा' चेत्ययं वैजयन्त्यनुसारिपाठ : ' । 'समाज्ञा च यशः कीर्तिः’ इति वैजयन्ती (पृ. ३४, श्लो. ३६) । 'कीर्ति: ख्यातिः समाज्ञा च' इति रभसकोशः । कीर्तिनामानि ॥ स्तवः – नुतिः । स्तोत्रनामानि || 'ईडा श्लाघा प्रशंसा च वर्णनं च विकत्थनम्' । एतानि च ॥ आम्रेडितं द्विस्त्रिरुक्तम् । द्विस्त्रिरुदीरणमाम्रेडितं भवति । ' 'एतदेव यथावाचम म्रेडयति वासवः ' (म. भार. ३. १२४. १३) । उच्चैः- घोषणा । उच्चैः शब्दः घोषणा स्यात् ॥ ११ ॥ 1 समज्ञा इति मुद्रितग्रन्थे. 2 ° पाठेन समाज्ञा च B3. माम्रेडयति देवराट् ' Apte's Dict. p. 347, 3 ' एतदेव यदा वाक्य- काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥ अवर्णाक्षेप निर्वादपरिवादापवादवत् । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ (वि.) काकुरिति–कायतीति काकुः । ‘कै' शब्दे’। शोकभीत्यादिकृतध्वनि- विकारन।म ।। वर्ण्यते वर्णः । विरुद्धो वर्णः अवर्णः । 'वर्ण वर्णक्रिया विस्तारगुणवचनेषु' । ‘वर्ण स्तुतौ' इति वा धातुः । आक्षिप्यते आक्षेपः । 'क्षिप प्रेरणे' । निकृष्टो वादः निर्वादः। परिवादः। ‘अपवादः | ‘वद व्यक्तायां वाचि' । ‘उपक्रोशतीत्युपक्रोशः । ‘क्रुश आह्वाने रोदने च' । 'जुगुप्सते जुगुप्सा | ‘गुप गोपने?' । कुत्सयते कुत्सा । ‘कुत्स ' निन्दने' । निन्दतीति निन्दा | ‘णिदि कुत्सायाम् | 10गर्हतीति गर्हणम् । गर्हा च । ‘गर्ह कुत्सायाम्’ | निन्दानामानि || १२-१३॥