पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः हूतिराकारणाहानं संहूतिर्बहुभिः कृता ।। ८ ।। विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् 1 ६. वाग्वर्गः] (वि.) हूतिरिति — अनया हूयते हूतिः । 'हु दानादानयोः' । अनया आकार- यन्तीति आकारणा'। अनेनाह्वयन्तीत्या ह्वानम् । 'ह्वेञ् स्पर्धायां शब्दे च' । अथवा हूतिः आकारणं च आह्वानं च | आकारण ह्वाने इति द्वन्द्वम् । एहीति वचसो नामानि ॥ सम्यक् हूयते संहूतिः । बहुभिः कृतस्य एहीति वचसो नाम || विविधो वादो विवाद: । व्यवहरत्यनेन व्यवहारः । 'हृञ् हरणे' । इदं मदीयमिदं मदीय मिति परस्पर वादनाम ॥ उपन्यस्यते उपन्यासः। ‘असु क्षेपणे' | वाचो मुखं वाङ्मुखम् | वाक्यारम्भनाम |॥८॥ 4 वचन ° 1‘ डुकृञ् करणे' B2. 2 वचन° D1. A; °विवाद ° B1, D1. १०९. 3 ‘वद व्यक्तायां वाचि' A. (पा.) हूति: – आह्वानम् । इत एहीति वचसो नामानि || समासाङ्गीकारपक्षे आकारणशब्दो नपुंसकः । 'आकारणमाह्वानम्' इति हलायुधः (अ. मा. १. १५४) । व्यासाङ्गीकारपक्षे आकारणाशब्द: स्त्रीलिङ्गः । 'हूतिर कारणा हावो' | हक्कारामन्त्र- जाह्वानम्' इति वैजयन्ती (पृ. ३३, श्लो. ३०) । संहूतिर्बहुभिः कृता । बहुभिः कृतस्य एहीति वचसो नाम। 'बहुभिर्मुहुः कृता हक्का संहूतिरिति भण्यते' इति वा ।। विवादो व्यवहारः स्यात् । विवादनाम || उपन्य | सस्तु वाङ्मुखम् | 3' यरो अमि नम्वेति' ककारस्य विभाषा ङकारः । उपन्यासनाम ॥ ८ ॥ 6 36 1 हव: Bs. 2 आमन्त्रणं ह्वानम् A1. उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥ प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे । 3 ' यरोऽनुनासिके–' (८. ५.४५).. (वि.) उपोद्धात इति - उपोहून्यते 'उपोद्भातः । 'हन हिंसागत्योः’। उदाह्वियते- ऽनेन उदाहारः । प्रकृतार्थचिन्ताग्रन्थस्य नामनी ॥ उदाहरणनामनी इति केचित् । विचारविषयवाक्यस्येत्यन्ये ॥ शपति आक्रोशतीति शपनम् । 'शप 'आक्रोशे' । शपति लम्भयति' विश्वसित्यनेनेति शपथः । 'शप 'लम्भने । सत्यवचननामनी ॥ देवता- पितृपादादिस्पर्शस्य वा ॥ पृच्छतीति प्रश्नः । पृच्छा च । 'प्रच्छ ज्ञीप्सायाम्' । अनुयुज्यतेऽनुयोगः। ‘युजिर् योगे' । कोऽसौ कुत' इत्येवंविधस्य वाक्यस्य नामानि ॥