पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. वाग्वर्गः] दाक्षिणात्यव्याख्योपेतः 6 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं 'चेति 'पुराणं पञ्चलक्षणम् || ' 'अनया कथ्यत इति कथा । 'कथ वाक्यप्रबन्धे' | रामायणादेर्नाम ॥ प्रवल्हते प्राधान्यं भजते प्रवलिहका । 'वल्ह प्राधान्ये' । प्रलयति हावयति सूचयति 'भावार्थमिति प्रहेलिका । ' हिल 10 भावकरणे' | विरुद्धार्थवचोनामनी ॥ ५ ॥ । 1 °चरित्रं B2, W2. 3 प्राचीनचरित्र ° Ba; श्रीहर्ष° Ks; वर्तमाननृपचरित्र ° A, T. K5 omits. 5 चैव B1, W2. 2 P2 adds उपलब्धो ज्ञातोऽर्थो यस्याः सा उपलब्धार्था. 4 पञ्चलक्षणान्युच्यन्ते B2; 6 लक्षणानां च पञ्चकम् B2. 7 Ba adds 8 प्रधानं U; अप्राधान्यं Y. प्रबन्धस्य कल्पना रचना. परिभाषण हिंसाप्रदानेषु प्राधान्ये च ' B2. १०७. 10 हावकरणे A, B1, T. 9 नानार्थमिति D1; 'वल्ह' 'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तरं तथा । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् || ' (पा.) आख्यायिकोपलव्धार्था । नायकाख्यातनायकोपलब्धार्थवती आख्या- यिका | हर्षचरितादि || पुराणं पञ्चलक्षणम् । सर्गप्रतिसर्गादिपञ्चलक्षणोपेतं पुराणम् । स्कन्दादि || प्रबन्धकल्पना कथा । स्तोकसत्यबह्वसत्ययुक्ता प्रबन्धकल्पना कथा स्यात् । कादम्वर्यादि ।। प्रवह्निका प्रहेलिका। गूढनिक्षिप्तार्थस्य कुतुकहेतोः कार्यविशेषस्य नामानि । 61 अष्टौ श्लोकान् कुरुष्वेति पुत्रः पित्रा नियन्त्रितः । सप्तश्लोकाः कृतास्तेन पितुराज्ञा न लङ्घिता ॥ ५ ॥ । अष्टिरिति वृत्तनाम. स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः । (वि.) स्मृतिरिति—स्मर्यतेऽनया स्मृतिः । ‘स्मृ आध्याने'। मन्वादिप्रणीत- धर्मसंहितानाम ॥ समाहियतेऽनयेति समाहृतिः । संगृह्यते संक्षिप्यते’ संग्रहः ।

  • संक्षिप्तग्रन्थसन्दर्भनाम || समस्यते संक्षिप्यते समस्या | 'असु क्षेपणे ' । कविपरीक्षार्थ

दीयमानश्लोकांशनाम || 'किं परस्परं वदन्त्यत्रेति किंवदन्ती । ' वद व्यक्तायां वाचि' । ‘जनैः श्रूयते जनश्रुतिः । 'श्रु श्रवणे ' । लोकप्रवादनामनी ॥ ६ ॥