पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ अमरकोशः 1 समुदाय: B3, B4. 2 श्रुति: A1. 3 A1 adds प्रणमौ इति वा. पाठस्य प्रणवपूर्वकत्वात् शिक्षाद्यनन्तरकथनम् A1. इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः खराः ॥ ४॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । (वि.) इतिहास इति — इतिह इति पारंपर्योपदेशः आस्तेऽस्मिन्निति इतिहासः। 6 'आस 'उपवेशने' । 'पुरावृत्त 'पादिचरित्र ग्रन्थसंदर्भनाम || उत् ऊर्ध्वमुन्नीयते उदात्तः । तद्विपरीतः अनुदात्त: । उदात्तानुदात्तयोः समाहारं प्राप्तः स्वरितः । एते त्रयः स्वरा भवन्ति । प्रत्यक्षागमाभ्याम् अवगन्तव्यस्य' वस्तुनोऽनु पश्चात् ईक्षणम् अन्वीक्षा, 10 सा प्रयोजनं यस्याः सा आन्वीक्षिकी। अक्षपाद| दिप्रणीततर्कशास्त्रनाम ॥ 12 दण्डोऽनया नीयते दण्डनीतिः । ‘णीञ् प्रापणे' । चाणक्यादिप्रणीतार्थशास्त्रनाम ॥ ४ ॥ 1 इतिहा A, B,, T; इति हसति B2; इतिह आसीत् D1, D2, I, K1, Wi. 2 ' अस भुवि क्षेपे' D2, I, K1, K2, K5, Y. 3 पुरा पूर्वम् उत्पन्नं वृत्तं पुरावृत्तम् B2. 'पृथ्वादिनृप ° Ks. 5 ° चरित° W2. 4 7 उदात्त: उच्चैर्गीत: आद्यः प्रथमो येषां ते उदात्ताद्या: B2. [प्रथमकाण्डः 4 शिक्षादि- 9 ईक्षितस्य D2, K1, U, W2. W2; 'तर्कविद्या' D1, I, K1, K5, Y. 10 अन्वीक्षणं तत् A, Ba 6 आदीयते D1, Kı, U, W1, Y. 8 समाहार: D2, K1, W1. 11 तर्कशास्त्रादिविद्या" 12 दण्ड्यतेऽनेन ऊन इति W2. (पा.) इतिहास: पुरावृत्तम् । इतिहासनाम || उदात्ताद्यास्त्रयः स्वराः उदात्तनिहतस्वरिता: स्वराः । आन्वीक्षिकी— शास्त्रयोः । तर्कविद्या वैशेषिकादिः, अर्थशास्त्रं कामन्दकादि । तयोर्यथाक्रमं आन्वीक्षिकीदण्डनीतिशब्दौ वर्तेते । अनुक्तम् – ' नामशास्त्रं निघण्टुर्ना' । नामशास्त्रं निघण्टुरित्युच्यते ॥ ४ ॥ 1 ° विहत° B4. 2 A1 adds कामशास्त्रं. 3 नामशास्त्रनाम B3. आख्यायिकोपलव्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥ प्रबन्धकल्पना कथा प्रवल्हिका प्रहेलिका । (वि.) आख्यायिकेति – आख्यायते वर्तमाननृपादिचरित'मित्याख्यायिका | ‘ख्या प्रकथने'। 'हर्षचरितादिग्रन्थसंदर्भनाम | पुरा भवं पुराणम् । पञ्चलक्षणयुक्तं ब्राह्मवैष्णवादिपुराणनाम ||