पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः श्रुतिः स्त्री वेद आम्नायस्त्री धर्मस्तु तद्विधिः । स्त्रियामृक सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ । ६• वाग्वर्गः] (वि.) श्रुतिरिति - श्रूयेते धर्माधर्मावनयेति श्रुतिः । ‘श्रु श्रवणे'। 'धर्माधर्मों वेदयतीति वेदः’। ‘विद ज्ञाने' । आम्नायते पारंपर्येण आम्नायः । 'म्ना अभ्यासे’ । ऋग्यजुःस/माख्याः त्रयोऽवयवा' यस्याः त्रयी | वेदनामानि ॥ धारयति जगन्तीति धर्मः॰ । वेदोक्तविधिन।म || ऋच्यते स्तूयते ऋकू | 'ऋच स्तुतौ' । पापं' स्यतीति साम । ‘षोऽन्तकर्मणि’। इज्यतेऽनेन यजुः । 'यज देवपूजासंग तिकरणयजनदानेषु' । इति त्रयो वेदाः। तेषां समाहार: त्रयी | 'वेदत्रयसमूहनाम || 10 शिक्ष्यतेऽनया वर्णादि शिक्षा । 'शिक्ष विद्योपादाने' । आदिशब्देन 12 अङ्गान्युच्यन्ते । 'शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषां गतिः । 14छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते || ' इति श्रुत्यङ्गनामानि ॥ ओमित्यक्षरम् ओंकारः | 15 प्रणूयते स्तूयतेऽनेनेति प्रणवः । ‘णु स्तुतौ' । 'वेदप्रणवनाम ॥ ३ ॥ 1 धर्मादि Di. 2 श्रुतित्रयं वेद : D1; विदन्ति धर्मादिकमनेन A. अभ्यस्यते B2. 4 तेषां समाहार: त्रयी B2. 3 उपदिश्यते- 5 वेदत्रयनाम K3. 8 इति त्रयाणां A, B1, T. 9W2, Y 12 अङ्गयते omit 'त्रय'. 7 पापानि I. 10 शिक्षते Bg. 11 आदिवर्णादि A, B1, T, W1. (अङ्गति K.) ज्ञायतेऽनेन अङ्गं B1, D1, Y; ‘अगि गतौ' I. 13 ज्योतिषं तथा A, B1, T. 14 छन्दसां लक्षणं चैव B1, I, Ks, W2, Y. 15 प्रकर्षेण नूयते B2. 16 वेद निष्ठ B2 ; 'प्रणववचन' D1. १०५ ऽनेन धर्मादि: D1; 6 धृञ् धारणे' D.. (पा.) श्रुतिः - त्रयी । वेदनामानि ॥ धर्मस्तु तद्विधिः । वेदोक्तविधिर्धर्मः स्यात् । स्त्रियाम् – त्रयी । त्रयाणां वेदानां समाहारस्त्रयी । अत्र त्रयोति सामान्याकारे- णोक्तम् । शिक्षे–अङ्गम् । शिक्षादीनि वेदाङ्गानि । 'शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दसां विचितिश्चेति षडङ्गो वेद उच्यते ॥ ओंकारप्रणव समौ । प्रणवनामनी ॥ ३ ॥