पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ अमरकोशः [प्रथमकाण्ड: तिङन्तानां चयो यथा – पचति' भवतीत्यादि । सुबन्तचयो यथा- 'ज्ञानेन मौनमि- त्यादि । क्रिया 'यथा — गां जलं फलमानयेत्यादि ॥ २ ॥ 2 हिंसायां I, 1 संस्कृतात् अपभ्रंशयति वा B1, Di, I, K5, W2; अपभ्रश्यते W1. 3] 'शास्त्रात् पतितशब्द ° B2; शपयति अवगमयति अर्थ शब्द:, 'शप गतौ' I, Pti, 4 वचसो योग्य: B2; वाचो॰ K5; वक्तुं॰ W2. 6 ज्ञानं Y. 5 भवति एधते पचतीत्यादि K5, 8 गामानय, K5. Pt2. Y; भाति भवति K1. जलमानयेत्यादि B2, D1, Ks, U, Y. (पा.) अपभ्रंशो-वाचकः । शास्त्रे गालिगोणीत्याद्यपशब्दोऽपभ्रंशः स्यात् । गौरित्यादिर्वाचकः शब्दो भवति । तिङ् – वाक्यम् । एकार्थोपरि तिङन्तसुबन्तसमुदायो वाक्यम् । यथा- 'कतिचन जृम्भन्ते दिशि कतिचन विकसन्ति काननाभोगे । कतिचन नृत्यन्ति गिरौ तथापि भवितव्यमेव भवितव्यम् ॥ १ 'भ्रेमुर्ववल्गुर्ननृतुर्जजक्षुर्जगुः समुत्पुप्लुविरे निषेदुः । आस्फोटयांचक्रुरभिप्रणेदू रेजुर्ननन्दुविययुः समीयु: ।। ' (भट्टि. १३. २८) कियत्प्रमाणमुदकं जानुदघ्नं नराधिप । तथापीयमवस्था ते न हि सर्वे भवादृशः ॥ ' (भो. प्र. पृ. ४०, श्लो. १८५) 6 इत्यादि || क्रिया वा कारकान्विता । कारकसंबद्धक्रियापि वाक्यं भवति । यथा- ‘ ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥' (म. भार. ७. १५९.४२ ) 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनी जलधरः कुलिशो वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ ' अत्र बाधिष्ठा इति क्रियाध्याहर्तव्या । 7 B2, W1 add कारकान्विता. मुद्रितग्रन्थे.

'छायासंतपिताध्वन्यः फलैः पोषितनीडजः । हन्त वृक्षो महानेष समिदर्थे विभिद्यते ||

अत्र जाल्मेनेति कारकमध्याहार्यम् ॥ २ 

1 एकार्थपद: Bs. 2 B4 adds इति भट्टिकाव्ये. 3 कियन्मानं जलं विप्र इति