पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६. वाग्वर्गः] दाक्षिणात्यव्याख्योपेतः १०३ । (वि.) ब्राह्मीति – ब्रह्मण इयं ब्राह्मी । 'विश्वानि भूतानि भ्रियन्तेऽनया भारती | 'भृञ् भरणे' । भरतस्य ब्रह्मण इयं वा । भरतस्य आदित्यस्य प्रभा वा । भाष्यते भाषा। 'भाष व्यक्तायां वाचि' | गृणाति अस्खलितम् उच्चारयति गीः । 'गृ शब्दे' । गीयते स्तूयते वा । ‘गै शब्दे' । उच्यत इति वाक् । 'वच परिभाषणे' | वण्यते स्तूयते वाणी । 'वण शब्दे' । सरः प्रसरणं सर्वत्रास्तीति सरस्वती । सरस्वतीनामानि ॥ व्याह्रियते उच्यते व्याहारः । 'हृञ् हरणे'। उच्यते उक्तिः । 'वच परिभाषणे ' । लप्यते लपितम् । 'लप व्यक्तायां वाचि' | भाष्यते भाषितम् । 'भाष व्यक्तायां वाचि' । उच्यत इति वचनम् । वचश्च' | एतानि वचननामानि ॥ १ ॥ । । 1 B1, K5, Y omit. मयीति श्रुतिनिर्णीतत्वात् B2. 6 B2, Wi add 'वच परिभाषणे'. (पा.) ब्राह्मी – सरस्वती । 'सरस्वतीदेवीन मानि ॥ इकारान्तवाणिशव्दः आका- रान्तवाचाशब्दोऽप्यस्ति । तत्र प्रथमो यथा- 'एका 'वाणिरलंकरोति पुरुषम् ' (नी. श. १५) इति । अन्तिमो यथा – 'कुठारदण्डः कुलमृत्युरेषा वाचा समीचीन- सुवीरधन्वा' इति । व्याहारः- वचः । वचननामानि । सरस्वतीपर्यायं च पठन्ति । 2 भुवनानि W2. 4 स्तूयते A, T; श्रूयते Kg, Y. इति राघवपाण्डवीये (द्विसं. १.५ ) । 3 प्रभा कान्तिर्वा भारती; वाक् तेजो- 5 व्याहरति B1, Wa, Y. 6 ' S कवेरपार्था - मधुरा न भारती कथेव कर्णान्तमुपैति भारती । ' इत्यादि ॥ १ ॥ 4 भवति A1. 'सन्तः क्षतानि जनयन्तु यथेष्टमस्यामा भाति तैरधिकमेव सरस्वती मे । दन्तक्षतं प्रियतमैरनुभूतिकाले किं मण्डनाय न भवेद् वरसुन्दरीणाम् ।।' 1 वाग्देवता° Bs. 2 शब्दश्च Bs, B4. 3 वाण्येका, वागेका इति मुद्रितग्रन्थे. 5 कले: A1, B.. अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः । तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ ६ ॥ (वि.) अपभ्रंश इति – वाचम् अपभ्रंशयतीति अपभ्रंशः'। ‘भ्रंशु अधःपतने ' शब्दादपभ्रष्टोऽपशब्दः । शब्दशास्त्राकथितशब्दनामानि || शब्दयत्यवगमयत्यर्थमिति शब्दः । 'शब्द आविष्कारे' | 'वचोयोग्यो वाचकः । शब्दशास्त्रोक्तशब्दनाम ॥ तिङयं चयः सुपां चयः कारकान्विता क्रिया वा वाक्यं भवति । अर्थबोधाय वक्तव्यं वाक्यम् ।