पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ अमरकोशः [प्रथमकाण्डः ‘इण् गतौ' । कीर्यन्ते नानावर्णा अत्रेति कर्बुरः । नानावर्णद्रव्यनामानि॥ गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति । त्रिषु इत्यर्थः ।। १६-१७ ।। इति श्रीलिङ्गयसूरिविरचितायाममरकोशपदविवृतौ धीवर्गविवृतिः पिञ्जयति 4 गतौ W2, Y. 1 कडति प्रतिक्षणं भिन्नवर्णमिव लक्ष्यते B2. 26 'कड बन्धने मदे च ' A. मिलति W1, Y; पिङ्गति B1, D1, U; 'पिङ्ग मिलने' Ks, U. 5' द्रु गतौ' Y. 6 पिङ्गं लाति W1. 7' ला दाने' D1. 8 चीयन्त इति चिताः नानावर्णाः तेऽस्मिन्निति B2. 9 B2, Ks, U, Y add अनेकवर्णान्; 'वर्णेन K1, K2. 10 कलि: कामधेनु: B2. 11 W2, Y omit द्रव्य. ' शुक्लादयः शब्दा: गुणमात्रे वर्तमानाः पुंसि, पटस्य शुक्ल: ; गुणवद्वर्तमाना: अभिधेयलिङ्गाः, शुक्ल: पटः, शुक्ला शाटी, शुक्लं वस्त्रम् W1. 12 (पा.) कडारः - 1

- पिङ्गलौ । कपिलवर्णनामानि | चित्रं - कर्बुरे | तिलतण्डुल-

न्यायेन दृश्यमानमिश्रवर्णनामानि ॥ गुणे - तद्वति । शुक्लादिशब्दा गुणे पुंलिङ्गा भवन्ति । गुणिनि तु त्रिलिङ्गा भवन्ति । अत्र रोहितादिशब्दानां स्त्रीत्वे रूपभेदोऽस्ति । ‘रोहिणी रोहिता रक्ता लोहिनी लोहिता च सा । लोहितिका लोहिनिका रागात् कोपादिनापि वा ॥ शोणी शोणा च पिङ्गा स्यात् पिशङ्गी हरिणी तु या । हरितैनी तथैता च श्येनी श्येता सिता च सा ॥ नीलैव वस्त्रे वा नाम्नि नीली प्राणिनि चौषधौ । शबली चैव कल्माषी कल्माषेत्यर्शआद्यचि ॥' १६-१७ ॥ इति ‘श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिजाते धीवर्गः 1 नरसिंह° A1. ६. वाग्वर्गः ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥