पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५. धीवर्गः] दाक्षिणात्यव्याख्योपेतः रागवर्णनाम। 'पाटलपुष्पवर्णत्वात् पाटलः । श्वेतमिश्ररक्तवर्णनाम || श्यायते आग- च्छतीति श्यावः । शावो वा । श्यामश्च । कपिवर्णयोगान् कपिश: । वानरवर्णनाम || धूमवर्ण रातीति धूम्रः | ‘रा दाने' | 'धूमल: । 'ला दाने' । 10 कृष्णमिश्रितलोहित- वर्णनाम ॥ १५ ॥ 1 रोहयति प्रादुर्भावयति B1, W2. 2 Ba adds रूष्यत इति. B2, D2 ; U adds वर्णो. 4 रक्तोत्पलादि॰ U. गतौ Ba. 6 पाटलि° D2. इति धातु: Bg. 9 1°युति: B3. 7 ' यैङ् गतौ ' I. ' धूमवर्ण लातीति धूमल: B2, W2, Y. (पा.) लोहितो – रक्तः । रक्तवर्णनामानि । 'ताम्रो निरक्तो माञ्जिष्ठः’ । एतानि च । शोणः कोकनदच्छवि: । रक्तोत्पलच्छवी रक्तवर्ण: शोण इत्युच्यते || अव्यक्त- रागस्त्वरुणः । अव्यक्तराग:2 रक्तवर्णोऽरुणः स्यात् ॥ श्वेतरक्तस्तु पाटलः । श्वेतमिश्ररक्त- वर्णः पाटल: स्यात् ॥ श्याच: स्यात् कपिशः । हरिद्रावर्णाधिकरक्तवर्णनामनी । ‘वानरवर्णनामनी वा॥ अनुक्तम् – 'पीतरक्तस्तु पिञ्जरः' । रक्तवर्णाधिकहरिद्रावर्णः पिञ्जरः इत्युच्यते॰॥ धूम्र – लोहिते । कृष्णवर्णाधिकरक्तवर्णनामानि ॥ अनुक्तम्– ‘रक्तकृष्णस्तु जोनलः' । रक्तवर्णाधिककृष्णवर्णः जोनल इत्युच्यते ।। १५ ।। 2 B3 omits राग:- इत्युच्यते B. 4 कपि° B3. 5 स्यात् B3. 3 छविरिव छवि: 5 अर्णोति शीघ्रं गच्छति, 'ऋणु 8 कपौ शेते वा । ' शीङ् स्वप्ने' 10 °मिश्र ° W1, Y. कडारः कपिलः पिङ्गपिशङ्गौ कटुपिङ्गलौ || १६ ।। चित्रं किमरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥ इति धीवर्ग: (वि.) कडार इति – कडति प्रकर्षेण लक्ष्यत इति कडारः। ‘कड ’लक्षणे’। कपिवर्णं लातीति कपिलः । पिङ्क्ते पिङ्गः | 'पिजि वर्णे' । पिंशतीति पिशङ्गः । ‘पिश 'अवयवे' । कुत्सितं द्रावयतीति कः । 'द्रा' कुत्सायां गतौ' | 'पिङ्गवर्णं लातीति पिङ्गलः’। गोरोचनादिवर्णनाम । चीयन्ते वर्णा अत्रेति चित्रम्' ।' चिञ् चयने'। नानावर्णाः कीर्यन्तेऽत्रेति किर्मीर: । 'कृ विक्षेपे' । कलयति 'काङ्क्षतीति कल्माषः । 10 कलतिरनेकार्थः । शवति नानावर्णान् शबलः । 'शव गतौ ' । एति नानावर्णत्वम् एतः ।