पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ अमरकोशः श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् । भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।। २६ ।। शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च । [ प्रथमकाण्ड: 66 (वि.) श्वःश्रेयसमिति – श्वः आगामि श्रेयोऽत्र श्वःश्रेयसम् । अरिष्टं शिनोति तनूकरोतीति शिवम् । ‘शिञ् 'निशाने' । भन्दते भद्रम् । 'भदि कल्याणे' । कल्यं नीरुजत्वमणति कल्याणम् । 'अण 'शब्दे' | 'मङ्गति सुखं लातीति मङ्गलम् । 'मगि गतौ ' । 'ला दाने' | शोभते शुभम् । “ शुभ दीप्तौ' । भवतीति भावुकम् । प्रशस्तो भवोऽत्र भविकम् । भवनाई भव्यम् । कुत्सितं इयतीति कुशलम् | कुशान् लातीति ' वा । 'शो तनूकरणे ' । क्षिणोति 10 केशमिति क्षेमम् । 'क्षिणु हिंसायाम्' । शस्यते स्मेति 11 शस्तम् । ‘शंसु स्तुतौ'। शुभनामानि ॥ पापपुण्यसुखादिशब्दाः द्रव्ये गुणिनि त्रिषु वर्तते ॥ २६ ॥ 1 अनिष्टं A. 2 निशातने A, B1, T, W1. A, B1, T. 5 मङ्गं A, B1, T; मङ्गतीति मङ्गं D1. 7 D adds 'भू सत्तायाम् '. 8 भवितुं योग्यम् Ba. 11 अस्मिन् K1. W1. 3 भं बन्धं दत्ते B1. 4 गतौ 6 ' शुभ शुम्भ शोभने 'I, U, W1. 9 ' ला आदाने ' D1. 10 अशुभं (पा.) श्वःश्रेयसं – भव्यम् । शुभनामानि || कुशलं – शस्तं च । क्षेमनामानि ॥ अथ – सुखादि च । पापपुण्यशब्दाः सुखादिशब्दाश्च द्रव्ये त्रिलिङ्गा भवन्ति । 'पापा ऋतुमती कन्या पापो राजाप्यरक्षकः' । पापग्रहणमर्थपरमिति कतिचित् कथयन्ति । दुष्कृतोऽयं व्यापारः । कल्मषोऽयममेध्याहारः । पुण्यं तीर्थमिदम् । पुण्या नदी । पुण्योऽयमाश्रमः । 'सुखं कामिकुलं द्रव्यात् सुखो वासः सहाम्बया' । सुखादयः स्वार्थ - प्रधानाश्चेन्निजलिङ्गा एव | दारिद्रयेऽपि धनित्वेऽपि वशः परिजनः सुखम् ॥ २६ ॥ 1° प्रधानं A1. 2°आहर: As. मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लुजौ ॥ २७ ॥ प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः । दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ २८ ॥ (वि.) मतल्लिकेति – मतल्लिका, मचर्चिका, प्रकाण्डम् अस्त्री, उद्धः, तल्लजः, अमूनि प्रशस्तवाचकानि। अश्वमतल्लिका प्रशस्ताश्व इत्यर्थः । प्रशस्तः पुरुषः पुरुष-