पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४. कालवर्गः] दाक्षिणात्यव्याख्योपेतः ८९ । तल्लजः । शुभमेत्यनेन 'अयः | शुभावहविधिनाम || देवस्येदं दैवम् | शुभाशुभं दिशतीति दिष्टम् । 'दिश अतिसर्जने' | 'भगस्य ऐश्वर्यस्येदं भागम् । भागमेव भागधेयम् । भजनीयं भाग्यम्। 'भज सेवायाम्' । नियम्यतेऽनया पुरुष इति नियतिः । 6 ' यम उपरमे ' । विधीयते प्रेर्यतेऽनेन विधिः । अयं पुमान् । शुभाशुभफलनिमित्तदैव- नामानि ॥ २७-८॥ 1 निरस्तावयवान्येतानि W.. 2 ब्राह्मणमचर्चिका प्रशस्तो ब्राह्मणः । गोप्रकाण्डं प्रशस्ता गौ; B1, K5, W2, Y; गजोद्ध: प्रशस्तो गज इत्यर्थः । पुरुषतल्लज इति नित्यसमास: W1; कुमारीतल्लजः प्रशस्ता कुमारीत्यादि W2. 3 I, W1 add ‘इण् गतौ '. ऐश्वर्यमनेन भगं B1, Kg, Y. 4 भजति उपशमने Dr. निमित्तानां W2. 5 भागोऽत्रास्तीति वा B1, K5, U, Y. 7 D1, I add ‘डुधाञ् 'धारणपोषणयोः’ 8°फलप्रद° B2. 6 यम 1° नामानि B3. तदुभयात्मकोऽयं नयः . 9 देव- (पा.) मतल्लिका–अमूनि । मतल्लिकादीनि पदानि प्रशस्तवाचकानि भवन्ति । यस्य कस्यचिद्विशेषणानि सन्त्यपि आविष्टलिङ्गान्येव । अश्वो मतल्लिका अश्वमतल्लिका । प्रशस्ताश्व इत्यर्थः । गोप्रकाण्डम् । पुरुषतल्लजः । प्रशस्तपुरुष इत्यर्थः । पुरुषमतल्लिका इत्यादि। प्रकाण्डमस्त्री। 'प्रकाण्डोऽस्त्री पुमानुद्भूः' इति त्रिकाण्डशेषः । अयः—विधिः। शुभावहदैवम् अय इत्युच्यते ॥ दैवं – विधिः । दैवनामानि ॥ 'भविष्यं भवितव्यं च । एते च । भागधेयशब्दव्युत्पत्त्या भागशब्दसिद्धिः ॥ २७–८ ॥ 2 मुद्रितग्रन्थे न दृश्यते. 3 A1 adds तद्विपरीत: अनयः । हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् । क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ॥ २९ ॥ (वि.) हेतुरिति — हिनोति वर्धते' हेतुः' । ' हि गतौ वृद्धौ च’। कार्यतेऽनेन कारणम् । बीज्यतेऽनेन' बीजम् । 'बीज रोहणे' । निमित्तनामानि ॥ निदीयते निदानम् । 'दाण् दाने ' । 'मूलनिमित्तनाम ॥ क्षीयत इति क्षेत्रम् । ‘क्षि निवासगत्योः ' 'क्षि क्षये' वा धातुः । क्षेत्रं शरीरं जानातीति क्षेत्रज्ञः । 'ज्ञा अवबोधने' । अत्ति स्वकृतं शुभाशुभम् आत्मा । 'अद भक्षणे' । अतति शरीरेषु संवसतीति वा । ‘अत सातत्यगमने'। पुरि देहे सीदति' तिष्ठतीति पुरुषः । 'षद्ल विशरणगत्यवसादनेषु । देहादिकं पिपर्तीति वा। 'पू पालनपूरणयोः' । अहंप्रत्ययस्य विषयिणो जीवात्मनो 10 नामानि ॥ प्रधत्ते सर्व प्रधानम् 1 2 | पृथक् क्रियते 18 आत्मन इति वा । प्रारम्भ:14 क्रियतेऽनया प्रकृतिः । प्रकृतिनाम ॥ २९ ॥