पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४. कालवर्गः]. दाक्षिणात्यव्याख्योपेतः नरकमेत्यनेनेति एनः । 'इण् गतौ' । कर्तारमङ्घत' इत्यघम् । 'अघि गत्याक्षेपे' | अंहते नरमनेनेति अंहः । 'अहि गतौ' । दुष्टमेतीति दुरितम्' । 'दुष्क्रियत इति दुष्कृतम् । ‘डुकृञ् करणे' । पापनामानि ॥ ध्रियत इति धर्मः । पुणति शुभं करोतीति पुण्यम् । ‘पुण कर्मणि शुभे' | शुभेन 12 श्रीयते श्रेयः । 'श्रिञ् सेवायाम् ' । सुष्टु क्रियते स्म सुकृतम् । अभिलषितं वर्षतीति वृषः । 'वृष सेचने ' । पुण्यनामानि । २३-४ ।। 1 प्रलयते, 'ली द्रवीकरणे' B1. 3 अस्मिन् W2. 7 अधो गमयति B2. 10 दुष्क्रियत्वात् W1. 4 °विपर्याय: A, W2. 2 'क्लप क्लृप्तौ ' A, B1, T, W1. 5 A adds विस्तार्यते. 8 ‘अघि लघि गतौ ' U. 11 D1, I, Wi add 'धृ धारणे'. 9 D1 adds 1 K3 omits 3 lines. 4 प्रकर्षेण मदयति D1. W2, Y; उपशमने Ks, W1. 12 श्रयते K 1. (पा.) संवर्तः प्रलयः । मन्वन्तरान्ते जातावान्तरप्रलयनामनी ॥ कल्पः–इत्यपि । महाप्रलयनामानि ॥ ‘महाप्रलयकल्पान्तौ युगान्तो भूतसंप्लवः' इति वैजयन्ती (प्र. २४, श्रो. ९४ ) ।। अस्त्री- दुष्कृतम् । पापनामानि ॥ स्याद् धर्म- वृषः | पुण्यनामानि ॥२३-४॥ मुत् प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः । स्यादानन्दथुरानन्दः शर्मसातसुखानि च ॥ २५ ॥ (वि.) मुदिति — मोदयतीति मुत् । प्रमोदश्च । आमोदश्च । 'मुद हर्षे' । प्रीणातीति प्रीतिः । ‘प्रीञ् 'तर्पणे कान्तौ च ' । 'प्रमयति हर्षयतीति प्रमदः । 'मी' हर्षे' । हृष्यतेऽनेनेति हर्षः। 'हृष तुष्टौ' । आनन्दयतीति आनन्दथुः । आनन्दश्च । ' टुनदि समृद्धौ' | गृणाति दुःखमिति शर्म। ‘शू हिंसायाम् ' । स्यति दुःखं सातम् । ‘षोऽन्तकर्मणि' । श्यति दुःखं शातमिति वा पाठः । 'शो तनूकरणे' । शातिर्वा । ॰शाम्यति दुःखमनेनेति शान्तम्। 'शमु ' उपशमे' । अयमपि पाठः । शोभनानि खानि इन्द्रियाणि 'अस्मिन्निति सुखम् । संतोषनामानि ॥ २५ ॥ 5' मदी हर्पग्लपनयो: ' Ks. 8 अनेन T. 6 वृज्यते A. ' इण् गतौ . 13सु K 1. 2 मोदश्च B1, K5, W2, Y. 3 प्रीणने I, K1. 6 शान्तमिति पाठे I. 7 उपरमे (पा.) मुत् प्रीतिः – सुखानि च । शर्मसाहचर्यात् शातम् । ‘शितं' शातं च निशिते कृशे शान्तं च शर्मणि' इति विश्वप्रकाशिका (पृ. ५७, लो. ९) । सुखसाहचर्यात् सातम् । 'सूतिः साततता तु सा ' इति देवीशतकम् । एतानि सुखनामानि ॥ २५ ॥ 1 निशिते शितं कृशे शातं A1. 2 Bg adds च. 3 सृतिस्ततो (श्लो० ९३).