पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३. दिग्वर्गः] दाक्षिणात्यव्याख्योपेतः अरुणः । न विद्येते ऊरू यस्य सः अनूरुः । कश्यपस्यापत्यं पुमान् काश्यपिः | काश्यप इति वा पाठः । गरुडस्याग्रजो गरुडाप्रजः । सूर्यसारथिनामानि ॥ परितो विष्यतेऽनेन परिवेष: '। 'विष्ऌ व्याप्तौ । परितो धीयतेऽनेन परिधिः । 'धि' धारणे ' । परिवेषनामनी ॥ समीपे सूर्यस्य 'प्रतिकृतिः उपसूर्यकम् । मण्ड्यतेऽनेन मण्डलम् । 'मडि भूषायां व्याप्तौ च' । प्रतिसूर्यनामानि । चत्वार्यपि ' नामानि परिवेषस्यैवेति केचित् ।। ३१-२ ।। 1 B1, D1, K5, U, W2, Y add पार्श्वे. 3 पारिपार्श्विका इति वा पाठ: Ks. 6 C ends here. 7' डुधाञ् U, Ks. 9 B2, K 1 omit नामानि (पा.) माठर: - पारिपार्श्विकाः । रथरक्षणार्थमादित्यस्य पार्श्वे स्थितदेवता- नामानि ॥ सूरसूतो–गरुडाग्रजः | काश्यप इति पाठान्तरम् | अनूरुनामानि ॥ परिवेषस्तु–मण्डले। परिवेषनामानि || अत्र चतुर्णां मध्ये प्रथमे द्वे परिवेषनामनी, उत्तरे द्वे प्रतिसूर्यन।मनी इति केचित् । परिवेषशब्दो मूर्धन्यस्तालव्यञ्च । 4 सूर्यस्य D1, K1, W2. 'धारणपोषणयोः ' W1. 6 64 परिवेशं विजानीया दुपसूर्यकमण्डले । परिवेष्टनमप्याहुः परिवेषं मनीषिणः ॥' इति शाश्वतः (पृ. ११, श्लो. ११८) ।। ३१-२॥ 1 परिपार्श्वे A1. मुद्रितग्रन्थे. 2 एते शब्दाः व्याख्यायन्ते Bo, D2. 5 अरुणवर्णत्वात् W 2. 8 प्रतिकृतिरूपं 'सूर्यमण्डलम् B2, 2 B adds गरुडाग्रज:. 3 A1 adds भवति. 4 परिवेषमिति किरणोत्रमयूखांशुगभस्तिघृणिवृश्चयः । भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ।। ३३ ।। (वि.) किरणेति – तमः कृणातीति किरण: । 'कृ हिंसायाम्' । आपो वसन्यत्र उस्रः। ‘वस निवासे' | 'मिनोति 'अवक्षिपति तम इति मयूखः । ‘डुमिञ् प्रक्षेपणे ' । अनुते अंशुः । 'अशू व्याप्तौ' । गां दिशं वभस्ति दीपयति गभस्तिः । ‘भस भर्त्सनदीप्त्योः' । जिघर्ति हरति जलमिति घृणिः । 'घृ क्षरणदीप्त्योः'। दीप्यत इति वा । स्पृशतीति॰ पृश्निः । वृष्टिरिति पाठपक्षे वर्षतीति वृष्टिः । वृष्णिरिति पाठपक्षे वर्षति क्ष्मामिति वृष्णि: । 'वृष सेचने ' । घृष्यत इति 'घृष्णि: । 'घृप 'संघर्षे' । इति बहवः पाठा: 'अवधारणीयाः । भातीति भानुः । 'भा दीप्तौ' । तमः कृणातीति करः । ‘कॄ हिंसायाम्’ | भुवि कीर्यते वा । 'कॄ विक्षेपे' | तमो म्रियतेऽनेन ' मरीचिः। स्त्रीपुंसयोः। 1°दीधीते दीप्यते दीधितिः । 'दोधीङ् दीप्तिदेवनयोः' । रश्मिनामानि ॥ ३३ ॥ ।