पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः खे द्योत इति खद्योतः । लोकानां बान्धवो लोकबान्धवः । सुरेषु उत्तमः । धाम्नां निधि: धामनिधिः। पद्मिनीनां वल्लभः पद्मिनीवल्लभः । तमो 26 3 अह्नि प्राणिनः 1C, Ks, U, We add गच्छति. चेष्टावत: करोतीति अहस्करः, धातुः पूर्ववत् C. हरतीति हरि: । 'हृञ् हरणे' I. डुकृञ् करणे ' C. 4 अस्य तेजोभिः मृत्काष्ठादिकं बध्नाति दृढीकरोतीति C. 5 विवस्ते (प्रभया B2 ) आच्छादयतीति विवाः, सान्तः, तत् किम्, कान्तिः । सा अस्यास्तीति B2, C. 6 भा: D2, K3. B2, C. 9Y adds वालखिल्यादिभिः. 12 CC adds विस्तारयति. ७० 7 Bg, C add श्यामाः 10 नान्त: C. 8 स्तूयते 11 दिव: C, W2. 14 स्तूयते U, Y. 13 वसु: K1; B2, C add धनं. (पा.) सूर - विभाकराः । भास्कराहस्करेत्यत्र 'कस्कादिषु’ (८. ३. ४८) इति पाक्षिकसादेशात् भाःकराहःकरौ इत्यपि भवतः | भास्वत् – रविः । आदित्यनामानि ॥ ‘वारुणीवारुणीभूतसौरभा सौरभास्पदम्' इति दण्ड्यलंकारयमकपाठात (३. १८) सूरशब्दो दन्त्यादिः । ‘मार्ताण्डः सविता भानुरिन: 2 पूषा दिनप्रणीः' इति वैजयन्ती- पाठात् (पृ. १७, श्लो. १०) मार्ताण्डशब्दो दीर्घमध्यमः । ‘तर्षुमार्तण्डमुण्डीर' पाथिपेरु गभस्तयः' इति वैजयन्तीपाठात् (पृ. १८, श्लो. १३) मार्तण्डशब्दो ह्रस्वमध्य इति केचित् । ‘कुमुदाकारा इवासोढशूरभासः स्थिता राजपुत्राः' इति वासवदत्ताश्लेषात् शूरशब्दस्तालव्यादिः । 'कर्मसाक्षी जगच्चक्षुरंशुमाली त्रयीतनुः । प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः || सुरोत्तमो धामनिधिः पद्मिनीवल्लभश्च सः । पद्मबन्धुरशीतांशुर्मातण्डो जलतस्करः ॥ रश्मिमाली दृगध्यक्षः ॥ ' एतानि च ॥ २८-३० ।। 1 सूर्य° B3. 2 भातुरिति मुद्रितग्रन्थे 3° पाथ: B4. 4 °फेरु° A4. माठरः पिङ्गलो दण्डचण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥ सूरसूतोऽरुणोऽनुरुः काइयपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले || ३२ || (वि.) माठर इति – चण्डांशोः सूर्यस्य परिवर्तमानाः यमाग्नीन्द्राः क्रमेण माठरः पिङ्गलः दण्ड इत्युच्यन्ते । मठरस्यापत्यं पुमान् माठरः । मन्यते वा । 'मन ज्ञाने' । पिङ्गलवर्णत्वात् पिङ्गलः । दण्डोऽस्यास्तीति दण्डः । पारिपार्श्वगा इति वा पाठः । परितः पार्श्वे वर्तन्त इति पारिपार्श्वकाः । सूरस्य सूतः सूरसूतः । 'अरुणवर्णो