पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः । ॥ ३० ॥ विकर्तनार्कमार्तण्ड मिहिरारुणपूषणः ॥ २९ ॥ द्युमणिस्तरणिमिंत्रश्चित्रभानुर्विरोचनः विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः भानुर्हसः सहस्रांशुस्तपनः सविता रविः ।

  • (पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ।

कर्मसाक्षी जगचक्षुर्लोकबन्धुस्त्रयीतनुः ॥ प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः । इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।।) (वि.) सूरेति — सुवति कर्मणि सूरः । सूर्यश्च । 'पू प्रेरणे ’ । इयर्ति ऋच्छति इति अर्यमा । ‘ऋ गतौ' । अदितेरपत्यं पुमानादित्यः । द्वादश आत्मानो यस्य द्वादशात्मा । दिवा अहनि प्राणिनः चेष्टावतः करोतीति दिवाकरः | भासं करोतीति भास्करः । अहः करोतीति अहस्करः । अन्यतेजो बध्नाति प्रतिवध्नाति ब्रघ्न : ' | 'बन्ध बन्धने’ । प्रभां करोतीति प्रभाकरः । विभां करोतीति विभाकरः । भासः सन्त्यस्य भास्वान् । विवस्ते प्रभया छादयतोति 'विवस्वान् । ‘वस आच्छादने' । विवः 'तेजोऽस्यास्तीति वा विवस्वान् । सप्त अश्वा यस्य सः सप्ताश्वः । हरितः ? अश्वा यस्य सः हरिदश्वः । उष्णा रश्मयो यस्य उष्णरश्मिः । तमः विकृन्ततीति विकर्तन: । 'कृती छेदने' । अर्क्यते' वालखिल्यादि- भिरिति अर्कः। ‘अर्क स्तवने' | अर्च्यते वा अर्क: । 'अर्च पूजायाम् ' । अर्च्यते सेव्यते 'वा । 'अर्च सेवायाम् ' । मृतण्डस्यापत्यं मार्तण्डः । मृतमण्डं ब्रह्माण्डं जीवयतीति वा मार्ताण्ड: । मेहति वर्षति मिहिरः । 'मिह सेचने' । इयर्तीति अरुणः । 'ऋ गतौ' । पुष्णातीति पूषा 10 ।' पुष पुष्टौ' | "दिवि मणि: मणि: । तरति 12 नभः तरणिः । 'हृ प्लवनतरणयोः' । मेद्यति स्निह्यतीति मित्रः । 'निमिदा स्नेहने' । सर्वस्य मित्रत्वाद्वा | चित्रा भानवो यस्य चित्रभानुः । विरोचते विरोचनः । 'रुच दीप्तावभिप्रीतौ च ' । विभैव 13 वसु यस्य सः विभावसुः । ग्रहाणां पतिः ग्रहपतिः । त्विषां पतिः त्विषांपतिः । अह्नः पति: अहर्पतिः, अहः पतिः । भातीति भानुः । 'भा दीप्तौ' । तमो हन्तीति हंसः । ‘हन हिंसागत्योः'। सहस्रम् अंशवो यस्य सः सहस्रांशुः । तपतीति तपनः । 'तप संतापे' | सुवति सुप्तं सविता । 'पू प्रेरणे' | रूयते श्रूयते रविः । ‘रु शब्दे’। एतानि सूर्यनामानि ।। २८-३० ।। 6 ३. दिग्वर्गः] ६९ Found in I, K2, Ks : कर्मण: साक्षी कर्मसाक्षी । जगतां चक्षुः जगच्चक्षुः । अंशूनां माला अस्यास्तीति अंशुमाली। प्रद्योतयतीति प्रद्योतनः । 'द्युत दीतौ' । दिनस्य मणिः दिनमणिः ।