पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः ६८ ग्लपयति. ३ स्वर्गे B2, C. 9 K5, W1 add व्यथयति. 10 B1, D2, K2, Kp add the two words. 11 एते शब्दाः केतोरपि वाचका: C; केतुः शिखीति वाच्यम् Ks. (पा.) रौहिणेयो – सौम्यः । बुधनामानि ॥ समौ – शनैश्चरौ । ‘शनिमन्दखोड- कोणच्छायापुत्रासितक्रोडाः' । एतानि च ॥ तमस्तु – विधुंदः । राहोर्नामानि । ' स एव ग्रहकल्लोलः स एवाभ्रपिशाचकः' । एते च ॥ २६ ॥ 1 शनिमन्दौ पड्गुकालौ B3. सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥ (वि.) सप्तर्षय इति – मरीच्य त्रिमुखाः सप्तर्षयः चित्रशिखण्डिनः स्युः । चित्राः शिखण्डा जटा येषां ते चित्रशिखण्डिनः । के ते । 1‘ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्चेति सप्तर्षी नाहुश्चित्र शिखण्डिनः ॥' इति सप्तर्षिनामानि ॥राति ददाति कल्य | दिफलमिति राशिः । तेषामुदयो लग्नमित्युच्यते । लगति ग्रहै: संबध्नाति लग्नम् । 'लगि सङ्गे' । राशयः मेषवृषादयः ॥ २७ ॥ 1 मरीचिरङ्गिरा अत्रिः 'ज्ञेयाश्चित्रशिखण्डिन: B2, W2, Y. कालविशेषाः, तान् शमयन्तीति राशयः । 'रा दाने ’ ‘शम उपशमे' B2, C. K3; कालादि॰ B1, D1, K5, W2, Y. 2 रान्ति ददति इति राः 3 कल्याणादिसकलं (पा.) सप्तर्षयो – चित्रशिखण्डिनः । मरीच्यत्रिप्रमुखा: 1 समुदायोक्त्या चित्र- शिखण्डिनः । राशीनामुदयो लग्नम् । राशीनामुदयनाम ॥ ते तु मेषवृषादयः । ते विति राशयो मेषवृषभमिथुनकर्कटकसिंहकन्यातुलावृश्चिकधनुर्मकरकुम्भमीना इति द्वादश । एते सर्वे तत्तत्पर्यायनामलिङ्गभाजः ॥ २७ ॥ 1 A1 adds पुलस्त्य 2 लग्नमित्युच्यते A1. सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करब्रघ्नप्रभाकरविभाकराः ॥ २८ ॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।