पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० अमरकोशः नक्षत्रनेमिरब्जारिश्चन्दिरः श्रीसहोदरः । यथासुखः स्मरसखः समुद्रनवनीतकम् ॥ ' एतानि च ॥ १३-१४ ।। कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ।। १५ ।। भित्तं शकलखण्डे वा पुंस्यर्धोऽधं समेंऽशके । (वि.) कलेति – कलयति संख्यातीति कला । 'कल गतौ संख्याने च' । षडधिका दश षोडश, षोडशानां पूरणः षोडशो भागः | चन्द्रस्य षोडशांशस्य नाम || बिम्बति विस्तारं प्राप्नोतीति बिम्ब: । 'बिम्ब आभोगे'। मण्डति व्याप्नोतीति मण्डलम् । 'मडि भूषायां व्याप्तौ च । चन्द्रमण्डलनामानि ॥ भिद्यत इति भित्तम् । ‘भिदिर् विदारणे’। शक्यते सेत्तमिति शकलम् । 'शक्लृ शक्तौ' । खण्ड्यत इति खण्डम् । 'खडि भेदने' । अर्धति भेदं गच्छतीत्यर्थः । अर्ध च' । 'अर्धगतौ' । शकलनामानि ॥ १५ ॥ । 1 षोडशांश: U. 2 °भागस्य C. 4 भङ्क्तं॒ K3. 5 खण्डने भेदने च D2, W2. [प्रथमकाण्ड: 3 चन्द्रसूर्यादि° B2, D2, K5, U. 6 अर्धं समांशकनाम I, Kg, U. (पा.) कला तु षोडशो भागो । चन्द्रस्य षोडशांशनाम' || बिम्बोऽस्त्री मण्डलं त्रिषु | चन्द्रस्य 'समग्रशरीरनामनी ॥ ते द्वे आदित्यादिनामन्यपि' भवतः । 'जलनिधि- जलप्रतिबिम्बितरविबिम्बराज ताम्बरान्तावलम्बागृहीतार्द्रमांसभारेव बभासे वासराव- सानवेला वैताली' । किं च - 'आदित्यवर्मणा' साम्यमादित्यः कथमश्नुते । विभिन्नमण्डलो 'वीरैर्भिन्दता रविमण्डलम् ॥' इति । । भित्तं – पुंस्यर्धः । असमभागना मानि' | शकलखण्डे वा पुंसि । शकलं, शकलः । खण्डं, खण्डः। ‘वा पुंसीति ’ अर्धेऽप्यन्वेति । तेन त्रिलिङ्गः | अर्ध: कम्बलः, अर्धा शाटी, अर्ध वस्त्रम् | खण्डार्धशब्दौ गुणवचनौ । छेदभङ्गलादयोऽप्यसमभागार्थकाः । 'चिसकि- सलयच्छेदपाथेयवन्तः' (मेघ. १. ११), 'पुष्पोच्चय: पल्लवभङ्गभिन्न : ' (कु. सं. ३.६१) त्यादि । अर्ध समेशके । नपुंसकलिङ्गाभिधायी अर्धशब्दः समभागार्थः । 'मातापितृत्वं जगतामाविष्कर्तुमिवेच्छत्तः । अर्धं नारी पुमानर्धं यस्य तस्य पदे पदे' ॥' इति ॥ १५ ॥