सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९ दाक्षिणात्यव्याख्योपेतः (पा.) अन्तर्धा - छादनानि च । मेघाद्यैश्चन्द्रादे रन्तर्धाननामानि ॥ १२ ॥ 1 सूर्यादे: B3, Ba. ३. दिग्वर्गः] हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अन्जो जैवातृकः सोमो ग्लौमृगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । (वि.) हिमांशुरिति — हिमा अंशवो यस्य हिमांशुः । चन्द्रेण कर्पूरेण मीयते उपमीयते चन्द्रमा: । 'माङ् माने' । चन्दतीति चन्द्रः 'चदि आह्लादने दीप्तौ च ' । मिमीते॰ कालमस्येति परिमाणं करोतीति माः, चन्द्रश्चासौ माश्च चन्द्रमाः । तुषारकिरणैः उनत्ति क्लेदयतीति इन्दुः। ' उन्दी क्लेदने' । कुमुदानां बान्धवः कुमुबान्धवः । देवा एनं विशेषेण धयन्तीति विधुः । 'धेट् पाने' । सुधारूपा अंशवो यस्य सुधांशुः। शुभ्रा अंशवो यस्य शुभ्रांशुः । ओषधीनाम् ईशः ओषधीश: । निशायाः पतिः निशापतिः। अप्सु जातः 'अब्जः । ओषधीः जीवयतीति जैवातृक: । 'जीव 'प्राणवारणे' । 'सौति अमृतं सोमः । ‘षु प्रसवैश्वर्ययोः' । 'ग्लायतीति ग्लौः । ‘ग्लै हर्षक्षये' । मृगः अङ्को यस्य सः मृगाङ्कः । कलानां निधिः कलानिधिः । द्विजानां राजा द्विजराजः । शशस्य धरः 10 शशधरः । नक्षत्राणाम् ईशः नक्षत्रेशः । क्षपां करोतीति क्षपाकरः। 12(रोहिणीशः सुधामूर्तिरात्रेयोऽमृतनिर्गमः । समुद्रनवनीतं च । एतानि चन्द्रनामानि ॥ १३-१४ ।। 2 सान्त: C. 3 मीयते कालोऽस्येति वा B1, C, K5. 5 निशायां स्पष्टीक्रियते इति 1 अनुमीयते A, B1, C, T. 4 ओषधीभिः ईष्टे ओषधीश: । 'ईश ऐश्वर्ये'। D1, I, Y. निशाकर इति च पाठः, 'डुकृञ् करणे' C. 7 A, K2, T add प्रीणने च. 8 सूचते Ba, Ks, Y. श्राम्यति; शाम्यति K3. 10 शशं धरतीति C, K3, U. करणे'. 6 जायत इति ए; ‘जनी प्रादुर्भावे' C. 9 D2, I, K1, Y add 11 D1, I add ‘डुकृञ् 12 D2, K2, K3 add. 13 D2, Kg, K3, Wi add. (पा.) हिमांशुः - क्षपाकरः । चन्द्रनामानि | अनुक्तम– 'शुचिरोचिः सुधासूतिरात्रेयोऽमृतनिर्गमः । पुनर्युवा निशाकेतुः प्राचीनस्तिलकः शशी ।। शशाङ्को रोहिणीकान्तो जलात्मा यज्वनां पतिः ।