३. दिग्वर्गः] दाक्षिणात्यव्याख्योपेतः ५७ (वि.) स्फूर्जथुरिति - स्फूर्जतीति स्फूर्जथुः । 'टुओस्फूर्ज वज्रनिर्घोषे ' । वज्रस्य निर्घोषो वज्रनिर्घोषः। वज्रनिर्धात इति वा पाठः । वज्रनिष्पेष इति च । प्रहरद्विद्यु- च्छब्दनामानि ॥ इरया अम्भसा माद्यतीति इरंमदः । 'मढ़ी हर्षग्लपनयोः' । मेघज्योतिर्नाम ॥ इन्द्रस्यायुधम् इन्द्रायुधम् । शक्रस्य धनुः शक्रधनुः | मेघप्रति- फलितनानावर्णस्य धनुराकारेण दृश्यमानस्य सूर्यरश्मेर्नामनी || रोहतीति रोहितम् । 'रुह वीजजन्मनि प्रादुर्भावे च' । एतस्यैवाजिह्मस्य ' धनुषो नाम ॥ १० ॥ 6 2 ' घुषिर् विशब्दने', 'हन हिंसागत्योः' 'पिष्ऌ धातुत्रयम् । एतानि अशनि (पात Y) नामानि B2, C. 4 प्रतीत° B2. 5 अदीर्घस्य W1. 1 K adds निर्घुष्यत इति निर्घोषः संचूर्णने' इति क्रमेण पदत्रयस्यापि 3K, U, W1 add इव; एव K3. (पा.) स्फूर्जथुर्वनिर्घोषः । प्रहारकविद्युन्नानामनि । 'श्रुत्वा तु 'स्फूर्जथुप्रख्यं निनादं परिदेविनी' इति भट्टिः (५. ५३) | मेघज्योतिरिरंमदः । प्रहारकविद्युग्मिनाम ॥ अनुक्तम् – 'निर्घातः पडिको वज्रः' । प्रहारकविद्युन्नामानि ॥ भाषया 'पिडुगु ' 2 | इन्द्रायुधं शक्रधनुः | मेघप्रतिफलितनानावर्णस्य धनुराकारेण दृश्यमानस्य सूर्यकिरणस्य नामेति केचित् । कामधनुरिति केचित् । मणिधनुरित्यन्ये । तदेव ऋजु रोहितम् । तदे॒वावक्रं चेद्रोहितमित्युच्यते । एतस्यैवावक्रस्य धनुषो नाम ॥ भाषया 'कोरडु' । 'वक्रमिन्द्रधनुर्ज्ञेयं ऋजु रोहितमिष्यते' इत्युत्पलमाला । अथवा तदेव ऋजुरोहित- मित्युच्यते । 'ऋजुरोहितमिच्छन्ति बुधाः शक्रशरासनम्' इति हलायुधः (अ. मा. १. ५७) ।। १० ।। 1 बिस्फूर्जथु' इति मुद्रितग्रन्थे (पृ. १०२). .adds व्यवहरन्ति. 4 केचित् B2, B1. 2 A1 adds 'प्रेल्लु'. 3A1 वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ । धारासंपात आसारः शीकरोऽम्बुकणा: स्वताः ॥ ११ ॥ वर्षोपलस्तु करका मेघच्छन्नेऽहि दुर्दिनम् । (वि.) वृष्टिरिति – वर्षतीति वृष्टिः । वर्ष च । वर्षशब्दः अस्त्री | 'वृषु सेचने’ |’वर्षनामनी || अवगृहातीत्यवग्रहः । अवग्रहश्च । 'ग्रह उपादाने वर्षप्रति- बन्धकनामानि ॥ आ समन्तात् सरतीति आसारः । 'सृ गतौ' । धाराणां संपातः
- धारासंपातः । धारासंतानस्य' नामानि ॥ शीकते सिञ्चतीति शीकरः । 'शीकृ सेचने ' ।