पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः
[प्रथमकाण्ड:
५६
रसितादि च। मेघनिर्घोषनामानि । रसितादि चेति चशब्दो व्यभिचारप्रदर्शनार्थः ।
खरस्य रसितं, पावकस्य हसितम् इत्यादि ॥ ८ ॥
1 A1 adds घने. 2 Ba adds 'ससुद्राभ्राद्धः '.
शम्पा शतहदाहादिन्यैरावत्यः क्षणप्रभा ।
तडित् सौदामिनीविद्युचञ्चलाचपला अपि ॥ ९ ॥
6
(वि.) शम्पेति - कृषीवलानां दुःखं शमयतीति शम्पा । 'शमु ' उपशमने ' ।
कर्षकाणां शं सुखं पातीति वा । 'पा रक्षणे ' । सम्पेति वा पाठः । समन्तात् पातीति
सम्पा । सम्यक् पिबति चाक्षुषं तेज इति वा । 'पा पाने' । शतं हादते शतहदा ।
'ह्लाद अव्यक्ते दे' । 'शतं हृदा विद्यन्ते अस्यामिति वा । बडवाज्योतिष्मत्या हादत
इति हादिनी । हादुनीति वा पाठ: । 'इरावति मेघे भवा ऐरावती | ऐरावतोऽभ्रनागः,
तस्य 7 स्त्री वा । क्षणं प्रभा यस्याः सा क्षणप्रभा । प्रभया नयनानि ताडयतीति तडित् ।
'तड आघाते' । 'सुदामाद्रिणा सह वर्तत इति 'सौदामिनी । सुदाम्ना अद्रिणा दीव्यतीत
सौदामिनी। ‘तेनैकदिक्’ इति (४. ३. ११२) सादृश्यं व्यज्यते । सुदामवत् दीर्घाकारोऽस्या
अस्तीति वा । सौदामनीति वा पाठः । विद्योतत इति विद्युत् | 'द्युत दीप्तौ ' । चञ्चतीति
चञ्चला। 'चञ्चु गतौ' । चोपतीति चपला । 'चुप मन्दायां गतौ' | चम्पयतीति वा
चपला । 'चपि गतौ ' । एतानि विद्युन्नामानि ॥ ९ ॥
3 पाठे I.
Jउपरमे K1; शमे U.
2 B1, C, K1, U add रक्षति.
शतहृदः समुद्रः विद्यतेऽस्यामिति वा I, K1, K2. 5 अपरिमितं C.
4
9 सौधामिनीति वा पाठः,
आप: तद्वन्तः इरावन्तः मेघा इत्यर्थः तेषु भवतीति B1, C, D2, Kg. 7 स तस्यामास्त
इति B2, D2, Ks. 4 A, T, Wı add °आख्येन.
सुधामवत् कैलासवत् दीर्घाकारोऽस्य B2, C; एतेन शैलसादृश्यं व्यज्यते B2.
(पा.) शम्पा - सौदामिनी । 'सौदानी त्वशनिर्विद्युत् ' इति त्रिकाण्डशेष: (ट.
५, श्लो. ८७) । विद्युच्चञ्चलाचपला अपि । विद्युन्नामानि । 'आकालिकी स्याज्जलदा
क्षणिकाप्यचिरद्युतिः' । एतानि च ॥ ९ ॥
स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः ।
इन्द्रायुधं शक्रधनुस्तदेव ऋजु रोहितम् ।। १० ।।