पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३. दिग्वर्गः] दाक्षिणात्यव्याख्योपेतः (वि.) अभ्रमिति – अभ्रति गच्छतीत्यभ्रम् । ‘अभ्र गतौ '। अपो रातीत्यभ्रम् । ‘रा दाने' । न भ्रश्यन्त्यापोऽस्मादिति वा । 'भ्रंशु अवस्रंसने ' । मेहतीति मेघः। ‘मिह सेचने' । वारि वहतीति वारिवाहः । 'वह प्रापणे' । स्तनयतीति स्तनयित्नुः । ‘स्तन देवशब्दे ' । बलं न जहातीति बलाहम् उदकम्, तदस्यास्तीति 'बलाहकः । धाराणां धरो धाराधरः । जलस्य धरो जलधरः । तटितोऽत्र सन्तीति तटित्वान् । वारि ददातीति वारिदः । ‘डुदाञ् दाने' | अम्बु बिभर्तीति अम्बुभृत् । 'डुभृञ्’ धारणपोषणयोः'। वायुना हन्यत इति घनः । 'हन हिंसागत्योः' । जीवनम् उदकं मूयतेऽत्र जीमूतः । 'मूङ बन्धने'। मोदन्ते येन कृषीवला: 'मुदिरः । 'मुद हर्षे '। जलं मुञ्चतीति जलमुक् । 'मुल मोक्षणे' । धूमो योनिर्यस्य सः धूमयोनिः । एतानि मेघनामानि ॥ ६ - ७॥ 2 °ध्वन° B2, U, W1. 1 अध:पतने W2. 3 जहातीति हं, हं न भवतीत्यहं, बलस्याहं बलाहं बलवर्धनमित्यर्थः । बलाहं कम् उदकं यस्य सः बलाहक: B2, C. 4 जलं धरतीति C. 5 ‘ भृञ् भरणे' K2, K5, Y. ' कृषीवलान् मोदयतीति मुदिर: C. (पा.) अभ्रं – धूमयोनय: । मेघनामानि । 'नभ्राट् तटित्पतिर्देवो 'नदनुर्जल- पोट्टण: 2'। एतानि च । ६-७ ।। 2 ° पोट्टलः इति पाठश्चेत् साधीयान् . 1 नदन्यु: A1. कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ८ ॥ (वि.) कादम्बिनीति – कमुदकम् आददत इति कादम्बा:1 मेघाः, तेऽस्यां सन्तीति कादम्बिनी । कादम्बा : 2 कलहंसाः अस्यां सन्तीति वा । कदम्बाः पुष्प्यन्त्यत्रेति वा | मेघमालानाम ॥ अभ्रे भवम् अभ्रियम् । मेघभवस्योदकादेर्नाम ॥ स्तनयतीति स्तनितम् । ‘ स्तन गदी देवशब्दे। गर्जतीति गर्जितम् । 'गर्ज शब्दे ' । रसति 'शब्दा रसितम् । 'रस शब्दे' । मेघनिर्घोषनामानि ॥ ८ ॥ कम् आदत्त इति कादं, जलस्वीकरणमित्यर्थः, तद्वहन्तीति कादम्बाः, वबयोरभेद: B1, C. 2 तेषां, नयतीति नं गमनमित्यर्थः, कादम्बनमस्याः अस्तीति कादम्बिनी, ‘णीञ् प्रापणे ' C. 3 वृक्षविशेषा: C. 4 स्तनति A, B1, K1, W1. 5 °ध्वन° C, I, K5, W1, Y. 6 शब्दयति A. (पा.) कादम्बिनी मेघमाला । मेघमाला नाम । अनुक्तम्–‘ऐरावतो राजमेघः' राजमेघनाम ॥ ‘ मोयिलुयेक्किवच्चिमेयलु' । अभ्रे' भवार्थ: अभ्रियं स्यात् । स्तनितं-