पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४ [प्रथमकाण्ड: (पा.) करिण्यो – चाञ्जनावती । क्रमादैरावतादिदिग्गजाङ्गन नामानि ॥ ४ ॥ 1 ताम्रकर्णीति पाठान्तरम् A1. अमरकोशः क्लीबाव्यग्रं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५ ॥ अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । (वि.) क्लीबेति–दिशोरिदम् अपदिशम् । विशिष्टा दिक् विदिक् । दिङ्मध्य- नामानि ॥ अन्तरमवकाशम् अभिगतम् अभ्यन्तरम् । अभ्यन्तर्यन्ते बध्यन्ते अश्वादयः अत्रेति अभ्यन्तरम् । अन्तरम् आलाति अन्तरालम् । 'ला आदाने' । अष्टदिगाद्- रभ्यन्तरनामानि ॥ चक्राकारेण 'चालते वर्तते चक्रवा लम् । 'वाड़ अप्लाव्ये ' । डलयो- रेकत्वस्मरणात् । मण्डयति भूषयतीति मण्डलम् । 'मडि भूषायां हर्षे च' । दिङ्मण्डल- नाम ॥ ५ ॥ 1 अन्तरं B2. C. 2 वलते K3, W1, Y. (पा.) क्लीबाव्ययं - विदिक् स्त्रियाम् | दिग्वलयमध्यनामानि | आग्नेय्यादिक्रमेण विदिशां नामान्यपि सन्ति । 'आग्नेयी तु चराशा' स्यात् नैर्ऋती तु दिगन्धकी। मारुत्यनन्ता शार्वी तु शालाक्षाप्यपराजिता || ' इति वैजयन्ती (पृ. १७, श्लो. ४-५)। अभ्यन्तरं त्वन्तरालम् | सकलदिङ्मध्यनाम । चक्रवालं तु मण्डलम् । दिक्समूहनाम | अनुक्तम् – 'दिग्युग्मं मण्डपीठ: स्यात् ' । दिग्युग्मं मण्डपीठिरित्युच्यते । 'दिगन्तः 'करिशालुकम्' । दिगन्तः करिशालु- कमित्युच्यते ॥ ५ ॥ 1 ईशादिनामानि A1. 2 ईशान्या A1; चतुराशा B3. 4 दिग्युग्मनाम B3. 5 करिलोलुकम् B3. 3 दिगान्धकी A1, Bg. अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥ धाराघरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥