पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकच दिग्गजाः । ३. दिग्वर्गः] (वि.) ऐरावत इति – इरा आपः अस्मिन् सन्तीति इरावान् समुद्रः, तस्मिन् जातः ऐरावतः । पुण्डरीकवर्णत्वात् पुण्डरीकः । पुणति शोभत इति वा । 'पुण कर्मणि शुभे' । वायुमात्मानं मन्यते 'वामनः । 'मन ज्ञाने' । वामं वल्गु शरीरमस्यास्तीति वा । वामनत्वाद्वा । कुमुदवर्णत्वात् कुमुदः । कुं पृथिवीं मोदयतीति वा । 'मुद् हर्षे' । अञ्जनाभत्वात् अञ्जनः । अनक्ति गच्छतीति वा । 'अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु' । पुष्ष्यतीति पुष्पम् । 'पुष्प विकसने' । पुष्पवद् दन्तोऽस्यास्तीति पुष्पदन्तः । सर्वभूम्यां विदितः सार्वभौमः । शोभनाः प्रतीकाः अवयवाः यस्य सः सुप्रतीकः । एतानि यथाक्रममष्टदिग्गजनामानि ॥ ३ ॥ 1 इरावति समुद्रे जात: ° B1, K2, K5, U, W1, Y. इति B2, C. 3 पृथ्वीं K1, Ks. 4 °वर्णत्वात् B2, C. 6 °गजानां D2. (पा.) ऐरावत: – दिग्गजाः | ऐरावतादयः पूर्वादिक्रमेण दिग्गजाः ॥ ३॥ 1 दिग्गजनामानि Bs, Ba करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥ 'ताम्रपर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती | 1 ताम्रकर्णीति वा पाठ:. (वि.) करिण्य इति — अभ्रेषु' माति वर्तते अभ्रमुः । ‘मा माने '३ । न भ्राम्यति 'स्ववल्लभं हित्वा क्वचित् न भ्रमतीति अभ्रमुः । 'भ्रमु 'अनवस्थाने' । काम्यत॰ इति कपिला । 'कमु कान्तौ । कपिलवर्णत्वाद्वा । पिङ्गलवर्णोऽस्या अस्तीति पिङ्गला । न विद्यते उपमा यस्याः सा अनुपमा । ताम्रपर्णाख्यौषधिसाहचर्यात् ताम्रपर्णी । शोभनौ दन्तौ यस्याः सा शुभ्रदन्ती । शोभनान्यङ्गानि यस्याः सा अङ्गना । 'अञ्जनाकारो वर्णो यस्याः सा अञ्जनावती । एतानि 10 दिग्गजभार्यानामानि ॥ ४ ॥ add वर्तने च. 7 °वर्ण° U. C, Y. 4 स्वावलम्बं W2. 2 वाय्वात्मना संमन्यत 5C adds विकसतीति ? अभ्रे स्वर्गे माति च वर्तते च C. ५३ 5 चलने D1, K1, K3, Wi, Y. 8 शोभना दन्ता: A, B1, T; सुदन्ती D1, K1, W1. 10 I, U, W1, Y add ऐरावतादि . 3 Kg, U, Y 6 कम्यते Y. 9 अञ्जनमिव 11° पत्नी B1, K5, Y.